Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 813
________________ ७८४ व्याश्रयमहाकाव्ये [कर्णराजा ४८-५१. कया चिद्देव्या नि नभिया निर्भययात एव करेण कृत्वा जिघृश्वा तं प्रहीतुमिच्छन्त्या सत्या ध्यानयुतो योगी स कर्ण उ त आच्छादितः स्वाङ्गेन व्याप्त आश्लिष्ट इत्यर्थः । किं कृत्वा । पदित्वा । किमित्याह । हे राजंस्त्वद्गतचित्तत्वात्तेभिख्यां कर्ण इति नामान्तश्चित्तेधिपूर्व जिगमिवधिजिगमिषु पठितुमिच्छ स्मर्तुमिच्छु वा बैणं देवाङ्गनौघं प्रति लक्ष्यीकृत्य यदसि त्वं न प्रेनविता नाई। हृदयीभवसि न प्रसीदसीत्यर्थः । तत्त्वं किं स्वर्गमिष्यस्युताथ वेह लक्ष्मीगृहेन्तश्चित्ते किमध्यज्ञेयं रहस्यमधिजिगांसुना पिपठिपुणा जपतेत्यर्थः । त्वया मोक्षो गंस्यते । ईदशैस्तपोजपैः स्वर्गापर्वौँ स्वप्नेपि ते दुर्लभावित्यर्थः । अथ वा यदोक्ष्णा बलीवन स्तोष्यते पयः क्षारष्यतेथ वा यदा शैलैराशूक्रस्यत उध्वं यास्यतेथ वा यदौर्वो वडवाग्निरब्धेः सकाशाकमिता गन्ता निःसरिष्यतीत्यर्थः । वा यद्वी भूः पृथ्वी ऋमित्री स्वपदाभ्यां संचरिष्यतीत्यर्थः। तदा त्वं मां क्रमितासि गमिष्यसि सेविध्यस इत्यर्थः । तथा तदा रतौ निधुवनविषये विवृत्सां प्रवर्तनेच्छां प्रकल्मासि विधास्यसि क्लए अन्तर्भूतणिगर्थः सकर्मकः । यदोक्षादीनां प्रेम(न)वादि भविष्यति तदानया देव्या सहाहं रस्म इति त्वया १ बी तं गृही. २ सी 'वादित्वादिशकि. ३ ए "दित्या । कि. ४ ए त्वाभि". ५ बी सी डी न्तश्चेतस्यधि'. ६५ मिषु प०. ७५ मित्सु म. ८ ए लक्ष्मी. क. ९५ प्रभवि . १० ए दयांभ. ११ बी गामि . १२ ए हेतश्चि. १३ ए प्यजेयं. १४ ए गांसना. १५ एक्षो गम्यते. १६ ए 'वों स्व. १७ए यथायबोषणा. १८ ए सी डीन स्तोष्य. १९ ए तेय वा. २० ए रास्त. २१ ए शाक्रमि . २२ बी सी दा यदाभूः. २३ ए 'थ्वी कृमि २४ ए त्वं नां क. सी त्वं मा क. २५ ए सेषिष्य . २६ ए विमृत्सा. २७ ए नेच्छाप्र. २८ सी सि कृप्. ५ "सिक र म. २९ ए 'न्तभूत'. ३०ए यदाक्षादीना प्र. ३१सी प्रस्तवनांदि. डी प्रस्तवनादि. ३२ ए 'प्यसि तयान'.

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846