Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
७९०
ब्याश्रयमहाकाव्ये
[कर्णराजः]
न शक्तमास्थातुमशान्तदान्तैः श्रीवेश्म मे स्पष्टमदासिताः । ततस्त्वमच्छन्नमदस्तपूर्णबलिर्मयां स्पाशित एवमन्ये ॥ ५७ ॥
५७. श्रीवैश्मास्थातुमाश्रयितुं न शक्तं न शक्यते स्म । कैः कैरित्याह । अशान्तदान्तैरजितेन्द्रियतपःक्लेशासहैस्तथा मे मह्यं स्पष्टमदासिता.रदत्तपूजैश्च । तत्तस्माद्धेतोरच्छन्नं प्रकटमदस्तपूर्णबलिर्मह्यमदत्तपर्याप्तपूजोपचारस्त्वं मया स्पाशित एव भक्षणाय गृहीत एवेति मन्ये । यद्यपि राज्ञः स्पशनं भावि तथाप्यनेनातिस्वाधीनत्वेन कृतमिव संभावितमित्यतीते क्तः ॥ रक्षोभिराच्छादितपूरितं प्राक् संज्ञप्तविश्वैर्दमितामरहि । विश्वस्तया पातुमिदं श्रियोक आज्ञापितोहं शमितान्यशक्तिः॥५८॥ ___५८. इदं प्रत्यक्षमोको लक्ष्मीगृहं पातुं रक्षितुं विश्वस्तया मयि कृतविश्वासया श्रियाहमाज्ञापितो नियुक्तः । यतः कीदृशम् । प्राक्पूर्व संज्ञप्तविश्वैर्मारितलोकैर्दमितामरैः परिभूतदैव रक्षोभिर्हि स्फुटमाच्छा. दितपूरितमाकान्तं संभृतं च । यतः कीदृशोहम् । बलिष्ठत्वेन शमितान्येषां राक्षसादिशत्रूणां शक्तिर्येन सः॥
कथमाज्ञापित इत्याह ॥ जप्तॉपि मत्रै पितापि पुष्पस्तूर्णं भवाम्युच्छ्रसिता न तस्य । न ते बलिं यस्त्वरितो दिशेत्माग्वलिः स भावी रुषितस्य ते च
॥ ५९॥ १९ "कमस्था'. २एवेशने स्प. सी 'वेस्म मे. ३१ लि. ४ बी 'या स्फाशि. ५ ई साभिम . ६ ए जप्तापि. ७बी पुष्फैस्तू. ८ ए मुच्छसि. ११ वी ऋषि.
१सी वेस्मासा. २ सी शक्य'. ३ बी न्तदीर'. ४ बी ततस्तस्मा. ५ ए राह प. ६५ सी डी स.

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846