Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[ है० ४.४.९५. ]
दशमः सर्गः ।
तुष्टास्म्युपस्कीर्य लुनामि तेषं मा भूत्यतिस्कीर्णमतः परं ते । यदप्युपस्कीर्णमिहोपसर्गस्तस्ते तपः प्रत्युत दीपितं हि ॥ ७३ ॥
E
७३. हे राजन्नस्म्यहं तुष्टा सती ते तवाघं कष्टमुपस्कीर्य विक्षिप्य लुनामि । अतश्चातोस्माद्दिनात्परं पश्चात्ते प्रतिस्कीर्णं हिंसानुबन्धी विनेट्कृतो त्रिश्लेपो मा भूत् । यदप्युपसगवनेटृतोपद्रवकर्तृकेमुपस्कीर्णं हिंसानुबन्धी विक्षेप इह स्थानेभूत्तेन परीक्षानिर्वाहशाणभूते नोपस्कीर्णेन तैरुपसंगैः कर्तृभिर्हि स्फुटं प्रत्युत विशेषेण ते तपो दीपितमुज्वालितम् ॥
उपस्कीर्य लुनामि । इत्यत्र “ किरो लवने" [ ९३ ] इति स्सद ॥ प्रतिस्कीर्णम् । उपस्कीर्णम् । अत्र “प्रतेश्च वधे" [ ९४ ] इति" स्सद ॥ अपस्किरन्ते श्वविष्करोक्षाणः क्षेत्रपालाच्युतशंकराणाम् । प्रस्तुम्पति स्वगिंगवीं च वत्सो यत्रास्तु तत्राप्यहता तवाज्ञा ||७४ ||
>
८०१
७४. तत्रापि स्वर्गेपि तवाज्ञाहता मत्प्रसादादस्खलितास्तु । यत्र स्वर्गे क्षेत्रपालाच्युतशंकराणाम् । अज्ञातः श्वाश्वः कुक्कुरः । त्रिष्किरः पक्षी | अर्थाद्रुडोत्र । उक्षा वृषभैः । द्वन्द्वे ते वाहनान्यर्पेस्कि - रन्ते विक्षिपन्तीति सामान्यार्थः । विशेषस्त्वयम् । श्वा आश्रयार्थी सन् विलिख्य भस्म विक्षिपति । विष्किरी भक्ष्यार्थी सन् विलिख्या -
१ डी 'पस्कार्य २ सी तेपमा ३ ए 'विष्करो. सी डी बिस्करो . म् । प्रस्तु
४ डी
१ एवायं क २ एस्माद्विना ३ ए यदिष्यु ४ सी 'विकृतो'. डी 'विकृतो. ५ ए कर्णिक ६ ए सी 'स्कीर्णि हिं. ७ ए सर्गेक. ८ ए प्रत्यत.
सीडी 'नाति । ६. १०सी 'तिष्कीर्ण । उ. ११सी 'ति स्म ॥ अ. १२ए कुक्कुरः. सी कुकुर:. डी कुर्कुरः. १३ एभः । थीदेते. १४ ए परिकर. १५ ए मान्यर्थः . १६ ए लिष्यति स्म. सी 'लिप्य भ. १७ बी विष्करो. १८ ए सी डी मक्षार्थी.
१०१

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846