Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 837
________________ ८०८ व्याश्रयमहाकाव्ये [कर्णराजः] इयं विशिष्टाशिपदन्जवासे तवार्यशीः कामगवीत्वमाशीः । अक्रूतमक्ष्मापिनपादमेतद्गजेन्द्रयानं दिदिवत्पयातम् ।। ८३ ।। किं क्रूय्यते वा विनिपेव्यसे त्वं सहोदरैः कीर्तिनसेवनैर्नु । मूर्धा प्रणिस्ते घनघात्यविघ्नो दानीय एपोपि जनस्तवाही ॥४॥ ८२-८४. हे अन्जवासे लक्ष्मि अकीर्णं संवद्धं ते वचस्तुष्टास्मीत्यादिगीराह्लादकत्वात्सुधी न्वमृतमिवोद्विरति क्षरति तथा ते मुखं पूर्तेन्दुमचिं परिपूर्णचन्द्रलक्ष्मी जिहीर्षु पूर्णेन्दुतुल्यं मुखमित्यर्थः । तथा नखश्रीरत्यारक्तत्वादिगुणैः कौस्तुभतां कौस्तुभमणित्वमात्मन: पोपूर्यतेत्यर्थ पोषयति । तथा करौ मार्दवादिगुणैः स्वर्दुमपल्लवत्वं पारिजातकिशलयतां स्वस्य शिष्टो वदतः । तथार्यान्पुण्यवतः शास्ति वत्तयार्यशीः । पुण्यपात्रेषु भवन्तीत्यर्थः । इयं प्रत्यक्षा विशिष्टा साधितविशेषकार्याशीरस्तु तत्राप्यहता तवाज्ञेत्यादिनोक्तपूर्व मङ्गलशंसनं कामगवीत्वं सर्वकार्यसाधकत्वात्स्वस्य कामधेनुतामशिषदवोचत् । तथैतत्प्रत्यक्षमतं निःशब्दमक्ष्मापितपादमकम्पितांहि प्रयातं मत्समीपेभिगमनं कर्तृ गजेन्द्रयानमैरावणगतिं दिदिवजितवत् । वा यद्वा किं क्रूय्यते वचः सुधामुद्रितीत्यादि किमित्युच्यते। उपमानोपमेयतोक्त्या यद्वचनादेः सकाशाद्भेदो मयोक्त: सोयुक्त एवेत्यर्थः । यतो नु शङ्के कीर्तितसेवनैर्वचनादिव्याजेन ज्ञापितसेवैः सहोदरैः सुधादिभिरेव साक्षात्त्वं सेव्यसे सर्वसहोदरेपूत्कृष्टत्वादाश्रीयसे । न तु ते सुधादि. तुल्यं वचनादि किंचिदस्तीत्यर्थः । सुधेन्दुकौस्तुभखर्दुमपल्लवकामधेनु१ सी डी तथार्य. २ ए विनषे'. ३ बी गिस्तै घ. ४६ ही ॥ अ. १ ए कीर्ण सं. २ ए मीदि. ३ ए धां तृमृईधां त्वमृ. ४ ई वोद्गर'. ५ए ते सुखं. ६ ए सी लक्ष्मी जि. ७ ई मात्मानः. ८ डी पाहते त'. ९ बी पूर्वम. १०ई लंशं. ११ डी वन्जित. १२ ए सी डी दो नयो'. १३ ए दिर'.

Loading...

Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846