________________
७८४
व्याश्रयमहाकाव्ये
[कर्णराजा
४८-५१. कया चिद्देव्या नि नभिया निर्भययात एव करेण कृत्वा जिघृश्वा तं प्रहीतुमिच्छन्त्या सत्या ध्यानयुतो योगी स कर्ण उ त आच्छादितः स्वाङ्गेन व्याप्त आश्लिष्ट इत्यर्थः । किं कृत्वा । पदित्वा । किमित्याह । हे राजंस्त्वद्गतचित्तत्वात्तेभिख्यां कर्ण इति नामान्तश्चित्तेधिपूर्व जिगमिवधिजिगमिषु पठितुमिच्छ स्मर्तुमिच्छु वा बैणं देवाङ्गनौघं प्रति लक्ष्यीकृत्य यदसि त्वं न प्रेनविता नाई। हृदयीभवसि न प्रसीदसीत्यर्थः । तत्त्वं किं स्वर्गमिष्यस्युताथ वेह लक्ष्मीगृहेन्तश्चित्ते किमध्यज्ञेयं रहस्यमधिजिगांसुना पिपठिपुणा जपतेत्यर्थः । त्वया मोक्षो गंस्यते । ईदशैस्तपोजपैः स्वर्गापर्वौँ स्वप्नेपि ते दुर्लभावित्यर्थः । अथ वा यदोक्ष्णा बलीवन स्तोष्यते पयः क्षारष्यतेथ वा यदा शैलैराशूक्रस्यत उध्वं यास्यतेथ वा यदौर्वो वडवाग्निरब्धेः सकाशाकमिता गन्ता निःसरिष्यतीत्यर्थः । वा यद्वी भूः पृथ्वी ऋमित्री स्वपदाभ्यां संचरिष्यतीत्यर्थः। तदा त्वं मां क्रमितासि गमिष्यसि सेविध्यस इत्यर्थः । तथा तदा रतौ निधुवनविषये विवृत्सां प्रवर्तनेच्छां प्रकल्मासि विधास्यसि क्लए अन्तर्भूतणिगर्थः सकर्मकः । यदोक्षादीनां प्रेम(न)वादि भविष्यति तदानया देव्या सहाहं रस्म इति त्वया
१ बी तं गृही. २ सी 'वादित्वादिशकि. ३ ए "दित्या । कि. ४ ए त्वाभि". ५ बी सी डी न्तश्चेतस्यधि'. ६५ मिषु प०. ७५ मित्सु म. ८ ए लक्ष्मी. क. ९५ प्रभवि . १० ए दयांभ. ११ बी गामि . १२ ए हेतश्चि. १३ ए प्यजेयं. १४ ए गांसना. १५ एक्षो गम्यते. १६ ए 'वों स्व. १७ए यथायबोषणा. १८ ए सी डीन स्तोष्य. १९ ए तेय वा. २० ए रास्त. २१ ए शाक्रमि . २२ बी सी दा यदाभूः. २३ ए 'थ्वी कृमि २४ ए त्वं नां क. सी त्वं मा क. २५ ए सेषिष्य . २६ ए विमृत्सा. २७ ए नेच्छाप्र. २८ सी सि कृप्. ५ "सिक र म. २९ ए 'न्तभूत'. ३०ए यदाक्षादीना प्र. ३१सी प्रस्तवनांदि. डी प्रस्तवनादि. ३२ ए 'प्यसि तयान'.