________________
११८
व्याश्रयमहाकान्ये
[मूलराजः ]
भवेत्पत्रं त्वहोरात्रं मासेनाब्देन देवतम् ।
देवे युगसहस्से द्वे ब्राह्ममिति ॥ एतद्गुणानां वर्ण्यमानानां पैत्रदेवतब्राह्मादिनान्यप्यतिकामन्ति न तु ते पूर्यन्त इत्यर्थः ॥ पूणाम् नृणाम् । इत्यत्र "नुर्वा' [४८ ] इति वा दीर्घः ॥ प्राणान् । इत्यत्र “शसोना" [ ४९ ] इत्यादिना शसोता सह दीर्घः पुंसि शसः सस्य नश्च । पुलिकामावे तु दीर्घत्वमेव । शकीः ।
चतुरहि । मेहनि । सायाहि । सायाहनि । यहि । व्यहनि । इत्यत्र “संख्यासाय" [५० ] इत्यादिनाह्वस्याहनादेशो वा । अहनादेशे च "ईौ वा" [२. १. १०९] इति वानोस्य लुक् । पर्षे त्र्यहे । असायाहे । व्यहे ॥
अष्टाभ्यो दिग्गजेभ्यश्चाष्टभ्योद्रिभ्यश्च धनियाम् ।
अत्यष्टानोत्र निधयोत्यष्टाश्चाभिमुखा प्रहाः ॥ १९५ ॥ १९५. अत्र नृपंविषयेष्टावतिक्रान्ता अत्यष्टानो नव महापन १ पद्म२ शङ्ख ३ मकर ४ कच्छप ५ मुकुन्द ६ कुन्द ७ नील ८ चर्चाख्या ९ निधयः । तथात्यष्टा नव । अर्क १ सोम २ मङ्गल ३ बुध ४ गुरु५ शुक्र ६ शनैश्वर राहु ८ केतवो९ ग्रहा अभिमुखा अनुकूला अभवन् । यतः किंभूते । अष्टाभ्य ऐरावत १ पुण्डरीक २ वामन ३ कुमुद. ४ अजन ५ पुष्पदन्त ६ सार्वभौम ७ सुप्रतीकेभ्यो ८ दिग्गजेभ्यश्च । तथाष्टभ्यो विन्ध्य १ पारिजात २ शुक्तिमत् ३ कक्षपर्वत ४ माहेन्द्र
१ एफ त्यष्टश्चा.
१ सी डी एफ बाहयमि. २ एफ ब्राहयदि. ३ सी डी न्यति. ४ सी डी यहि सा. ५ एफ नि व्यह. ६ एफ क्षे अहे. ७वी पतिवि. ८ एफ शनि. ९ सीडी अनु. १० सी डी न् । किं.