Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
। तच्छिथिलीकरणात् । व्युत्थाने = व्यवहारदशायां च समाध्युत्साहजननाद् विशिष्टफलदायकत्वाच्च सिद्धयः । यत उक्तं- “ते समाधावुपसर्गा व्युत्थाने सिद्धयः” (योगसूत्र ३-३७) ।।११।।
बन्धकारणशैथिल्यात् प्रचारस्य च वेदनात् ।
चित्तस्य स्यात् परपुरे प्रवेशो योगसेविनः ।।१२।। बन्धेति । “व्यापकत्वादात्म-चित्तयोर्नियतकर्मवशादेव शरीराऽन्तर्गतयोर्नोग्यभोक्तभावेन यत्संवेदनमुपजायते स शरीरबन्ध इत्युच्यते । ततो बन्धस्य = शरीरबन्धस्य यत्कारणं धर्माऽधर्माख्यं कर्म तस्य शैथिल्यात् = तानवात्' (=बन्धकारणशैथिल्यात्) । प्रचारस्य च = चित्तस्य हृदयप्रदेशादिन्द्रियद्वारेण विषयाऽऽभिमुख्येन प्रसरस्य च वेदनात् = ज्ञानात् = "इयं चित्तवहा नाडी, अनया चित्तं वहति, इयं रस-प्राणादिवहाभ्यो 'विलक्षणेति" स्वपरशरीर सञ्चारपरिच्छेदादित्यर्थः, योगसेविनो = योगाऽऽराधकस्य चित्तस्य परपुरे = मृते जीवति वा परकीयशरीरे प्रवेशः स्यात् । चित्तं च परशरीरं प्रविशदिन्द्रियाण्यनुवर्तन्ते,
मधुकरराजमिव मक्षिकाः । ततः परशरीरं प्रविष्टो योगी ईश्वरवत्तेन व्यवहरति. यतो २६/१२
१. मुद्रितप्रतौ 'प्रदेशो' इत्यशुद्धः पाठः । २. हस्तादर्श 'योगसेविन' इति पदं नास्ति । ३. हस्तादर्श 'तानवति' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'तानवानति' इत्यशुद्धः पाठः । ४. हस्ताद” 'हृदयद्वारेण' इति त्रुटितः पाठः । ५. मुद्रितप्रतौ 'विलक्षेति' इत्यशुद्धः पाठः । ...... चिनद्वयवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति ।
||४५८।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548