Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 541
________________ 파 괴되 최 ॥ अथ सज्जनस्तुतिद्वात्रिंशिका ।।३२।। नाम सज्जन इति त्रिवर्णकं, कर्णकोटरकुटुम्बि चेद् भवेत् । नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोक्तयः ॥१॥ स्याद् बली बलमिह प्रदर्शयेत्, सज्जनेषु यदि सत्सु दुर्जनः । किं बलं नु तमसोऽपि वर्ण्यते, यद् भवेदसति भानुमालिनि ।।२।। दुर्जनस्य रसना सनातनी, सङ्गतिं न परुषस्य मुञ्चति । सज्जनस्य तु सुधाऽतिशायिनः, कोमलस्य वचनस्य केवलम् ।।३।। या द्विजिह्वदलना घनाऽऽदराद् याऽऽत्मनीह पुरुषोत्तमस्थितिः । याऽप्यनन्तगतिरेन'येष्यते. सज्जनस्य गरुडाऽनुकारिता ॥४॥ सज्जनस्य विदुषां गुणग्रहे, दूषणे निविशते खलस्य धीः । चक्रवाकदृगहर्पतेर्युतौ, घूकदृक् तमसि सङ्गमङ्गति ।।५।। दुर्जनैरिह सतामुपक्रिया, तद्वचोविजयकीर्तिसम्भवात् । व्यातनोति जिततापविप्लवां, वह्निरेव हि सुवर्णशुद्धताम् ॥६॥ । १. मुद्रितप्रतौ ...रेतये...' इति पाठः । २. हस्तादर्श 'सुवर्णसिद्धितः' इत्यशुद्धः पाठः । | 의 적 파 ३२/६ ||५३६।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548