Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 544
________________ 여 외 | 고 भूरिसूरितिलकैरपि श्रिया पूरितैर्विजयसिंहसूरिभिः ।।१९।। धाम भास्वदधिकं निरामयं रामणीयकमपि प्रसृत्वरम् । नाम कामकलशाऽतिशायि'तामिष्टपूर्तिषु यदीयमञ्चति ॥२०॥ यैरुपेत्य विदुषां सतीर्थ्यतां स्फीतजीतविजयाऽभिधावताम् । धर्मकर्म विदधे जयन्ति ते श्रीनयादिविजयाऽभिधा बुधाः ।।२१।। उद्यतैरहमपि प्रसद्य तैस्तर्कतन्त्रमधिकाशि पाठितः । एष तेषु धुरि लेख्यतां ययौ सद्गुणस्तु जगतां सतामपि ॥२२॥ येषु येषु तदनुस्मृतिर्भवेत्तेषु धावति च दर्शनेषु धीः । यत्र यत्र मरुदेति लभ्यते तत्र तत्र खलु पुष्पसौरभम् ।।२३।। तद्गुणैर्मुकुलितं रवेः करैः शास्त्रपद्ममिह मन्मनोहृदात् । उल्लसन्नयपरागसगतं सेव्यते सुजनषट्पदव्रजैः ।।२४।। निर्गुणो बहुगुणैर्विराजितांस्तान् गुरूनुपकरोमि कैर्गुणैः । १. मुद्रितप्रतो ... शायिनामि...' इत्यशुद्धः पाठः । २. हस्तादर्श 'तन्त्रमन्त्र' इत्यशुद्धः पाठः । ३. हस्तादर्श | 'तरदनु' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘खपुष्प...' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ '...मुकुिलतं' इत्यशुद्धः पाठः । 하 척 ३२/२४ ||५३९।। Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548