Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
स
ज्ज
5 te ho to
न
ति
त्रिं
शि
का
३२/३०
Jain Education International
'वारिदस्य ददतो हि जीवनं किं ददातु बत चातकाऽर्भकः ' ।। २५ ।। प्रस्तुतश्रमसमर्थितैर्नयैर्योग्यदानफलितैस्तु तद्यशः । यत्प्रसर्पति सतामनुग्रहादेतदेव मम चेतसो मुदे ।। २६ ।। आसते जगति सज्जनाः शतं तैरुपैमि नु समं कमञ्जसा । किं न सन्ति गिरयः परःशता मेरुरेव तु बिभर्तु मेदिनीम् ।। २७ ।। तत्पदाम्बुरुहषट्पदः स च ग्रन्थमेनमपि मुग्धधीर्व्यधाम् ।
यस्य भाग्यनिलयोऽजनि श्रियां सद्म पद्मविजयः सहोदरः । । २८ ॥ मत्त एव मृदुबुद्धयश्च ये तेष्वतोऽप्युपकृतिश्च भाविनी । किं च बालवचनाऽनुभाषणाऽनुस्मृतिः परमबोधशालिनाम् ।। २९ ।। अत्र पद्यमपि पाङ्क्तिकं क्वचिद्वर्तते च परिवर्तितं क्वचित् । स्वाऽन्ययोः स्मरणमात्रमुद्दिशंस्तत्र नैष तु जनोऽपराध्यति ।। ३० ।। ख्यातिमेष्यति परामयं पुनः सज्जनैरनुगृहीत एव च ।
१. हस्तादर्शे ‘वारिदोवारि’ इत्यशुद्धः पाठः । २. हस्तादर्शे 'चातकोर्भक' इति पाठः अवग्रहप्रक्षेपात् शुद्धः भवितुमर्हति। ३. हस्तादर्शे '... नुग्रहात् देतदेव' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'रपः शता' इति वर्णव्यत्यासः । ५. हस्तादर्शे 'क्वपि' इति अशुद्धः त्रुटितश्च पाठः ।
For Private & Personal Use Only
1148011
www.jainelibrary.org

Page Navigation
1 ... 543 544 545 546 547 548