Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
되
고
किं न शङ्करशिरोनिवासतो निम्नगा सुविदिता सुरापगा ॥३१॥ यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा निस्तारात् 'जन्मसिन्धोः 'शिवपदपदवी प्राणिनो यान्ति यस्मात् । अस्माकं किं च यस्माद् भवति शमरसैनित्यमाकण्ठतृप्तिः जैनेन्द्र शासनं तद्विलसति परमानन्दकन्दाऽम्बुवाहः ॥३२॥ ।। शिष्टा द्वात्रिंशिका सज्जनगुणवर्णनमयी ग्रन्थाऽविच्छेदहेतुमङ्गलरूपा स्पष्टा ।।
॥ इति सज्जनस्तुतिद्वात्रिशिंका ।।३२।।
* तत्त्वार्थदीपिकावृत्ति-प्रशस्तिः * प्रतापाऽर्के येषां स्फुरति विहिताऽकब्बरमनःसरोजप्रोल्लासे भवति कुमतध्वान्तविलयः । विरेजुः सूरीन्द्रास्त इह जयिनो हीरविजया दयावल्लीवृद्धौ जलदजलधारायितगिरः ।।१।। प्रमोदं येषां सद्गुणगणभृतां बिभ्रति यशःसुधां पायं पायं किमिह निरपायं न विबुधाः। अमीषां षट्तर्कोदधिमथनमन्थानमतयः सुशिष्योपाध्याया बभुरिह हि कल्याणविजयाः ।।२।। चमत्कारं दत्ते त्रिभुवनजनानामपि हृदि स्थितिमी यस्मिन्नधिकपदसिद्धिप्रणयिनी । ।।५४१।। सुशिष्यास्ते तेषां बभुरधिकविद्याऽर्जितयशःप्रशस्तश्रीभाजः प्रवरविबुधा लाभविजयाः ।।३।। १. मुद्रितप्रतौ ...राजन्म...' इत्यशुद्धः पाठः। २. हस्तादर्श 'शिवपुर..' इति पाठः। ३. हस्तादर्श 'किंचि' इत्यशुद्धः पाठः ।
속 파
का ३२/३२
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 544 545 546 547 548