Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
고 최 외퇴 예
यदीया दृग्लीलाऽभ्युदयजननी मादृशि जने जडस्थानेऽप्यर्कद्युतिरिव जवात् पङ्कजवने । । स्तुमस्तच्छिष्याणां बलमविकलं जीतविजयाऽऽभिधानां विज्ञानां कनकनिकषस्निग्धवपुषाम् ।।४।। प्रकाशार्थं पृथ्व्यास्तरणिरुदयाद्रेरिह यथा यथा वा पाथीभृत्सकलजगदर्थं जलनिधेः । तथा वाणारस्याः सविधमभजन ये मम कृते सतीर्थ्यास्ते तेषां नयविजयविज्ञा विजयिनः ।।५।। यशोविजयनाम्ना तच्चरणाऽम्भोजसेविना । द्वात्रिंशिकानां विवृतिश्चक्रे तत्त्वार्थदीपिका ।।६।। महार्थे व्यर्थत्वं क्वचन सुकुमारे च रचने बुधत्वं सर्वत्राऽप्यहह ! महतां कुव्यसनिताम्। नितान्तं मूर्खाणां सदसि करतालैः कलयतां खलानां साद्गुण्ये क्वचिदपि न दृष्टिर्निविशते ।।७।। अपि न्यूनं दत्वाभ्यधिकमपि संमील्य सुनयैर्वितत्य व्याख्येयं वितथमपि सङ्गोप्य विधिना। अपूर्वग्रन्थार्थप्रथनपुरुषार्थाद्विलसतां सतां दृष्टिः सृष्टिः कविकृतिविभूषोदयविधौ ।।८।। अधीत्य सुगुरोरेनां सुदृढं भावयन्ति ये । ते लभन्ते श्रुताऽर्थज्ञाः परमानन्दसम्पदम् ।।९।। प्रत्यक्षरं ससूत्राया अस्या मानमनुष्टुभां । शतानि च सहस्राणि पञ्च पञ्चाशदेव च ।।१०।। इति श्रीमहामहोपाध्याय-न्यायविशारद-न्यायाचार्य-श्रीयशोविजयगणिविरचितम्
तत्त्वार्थदीपिकाऽभिधान-स्वोपज्ञवृत्तिसमलङ्कृतम् मुनियशोविजयेन संशोधितं सम्पादितञ्च
।।५४२॥ द्वात्रिंशद्वात्रिंशिकाप्रकरणम् ।
의
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 545 546 547 548