Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
नव्यतन्त्ररचनं सतां रतेस्त्यज्यते न खलखेदतो बुधैः । नैव भारभयतो विमुच्यते शीतरक्षणपटीयसी पटी ॥१३॥ आगमे सति नवः श्रमो मदान्न स्थितेरिति खलेन दूष्यते । नौरिवेह जलधौ प्रवेशकृत् सोऽयमित्यथ सतां सदुत्तरम् ।।१४।।
पूर्वपूर्वतनसूरिहीलना नो तथापि निहतेति दुर्जनः । तातवागनुविधायिबालवन्नेयमित्यथ सतां सुभाषितम् ॥१५॥ किं तथापि पलिमन्थ मन्थरैरत्र साध्यमिति दुर्जनोदिते । स्वाऽन्ययोरुपकृतिर्नवा मतिश्चेति सज्जननयोक्तिरर्गला ॥१६॥ सप्रसङ्गमिदमाद्यविंशिकोपक्रमे मतिमतोपपादितम् । चारुतां व्रजति सज्जनस्थितिर्नाऽक्षतासु नियतं खलोक्तिषु ।।१७।। न्यायतन्त्रशतपत्रभानवे लोकलोचनसुधाऽञ्जनत्विषे । पापशैलशतकोटिमूर्तये सज्जनाय सततं नमो नमः ॥१८॥
भूषिते बहुगुणे तपागणे श्रीयुतैर्विजयदेवसूरिभिः । १. हस्तादर्श 'पूर्व' इति पदं त्रुटितम् । २. हस्तादर्श 'मंथरिरत्न' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्यान्य...' इत्यशुद्धः पाठः ।
३२/१८
।।५३८॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 541 542 543 544 545 546 547 548