Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 542
________________ 여 되 최 고 या कलङ्किवसतेर्न' सक्षया, या कदाऽपि न भुजङ्गसङ्गता । गोत्रभित्सदसि या न सा सतां, वाचि काचिदतिरिच्यते सुधा ।।७।। दुर्जनोद्यमतपर्तुपूर्तिजात्तापतः श्रुतलता क्षयं व्रजेत् । नो भवेद्यदि गुणाऽम्बुवर्षिणी, तत्र 'सज्जनकृपातपात्ययः ॥८॥ तन्यते सुकविकीर्तिवारिधौ दुर्जनेन वडवानलव्यथा । सज्जनेन तु शशाङ्ककौमुदीसङ्ग्रङ्गवदहो महोत्सवः ॥९॥ यद्यनुग्रहपरं सतां मनो दुर्जनात् किमपि नो भयं तदा । सिंह एव तरसा वशीकृते किं भयं भुवि शृगालबालकात् ॥१०॥ खेदमेव तनुते जडात्मनां सज्जनस्य तु मुदं कवेः' कृतिः । स्मेरता कुवलयेऽम्बुजे व्यथा(इब्नपीडन) चन्द्रभासि' भवतीति हि स्थितिः ।।११॥ न त्यजन्ति कवयः श्रुतश्रमं संमुदैव खलपीडनादपि । स्वोचिताऽऽचरणबद्धवृत्तयः साधवः शम-दमक्रियामिव ॥१२॥ १. मुद्रितप्रतो ....सतेन...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ....सज्जनकृपां तपात्ययः (या)...' इत्यशुद्धः । ३. मुद्रितप्रती 'शशांककौमुदी संग..' इत्यस्थानच्छिन्नः पाठः । ४. हस्तादर्श 'चक' इत्यशुद्धः पाठः । ५. हस्तादर्श ...ब्लमीम' इत्यशुद्धः पाठः । ६. हस्तादर्श 'चन्द्रमासि' इत्यशुद्धः पाठः । 파 의 ३२/१२ 11५३७।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548