Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 540
________________ जन्यस्याप्यभावस्येव भावस्याऽपि कस्यचिदनन्तत्वसम्भवात् । अत्र = मुक्तिसुखे 'नित्यं ॥ | विज्ञानमानन्दं ब्रह्मेति (बृहदारण्यकोपनिषद्-३/९/२८) अपराऽपि श्रुतिः साक्षिणी वर्तते (=दृश्यते), तया नित्यज्ञानाऽऽनन्दब्रह्माऽभेदबोधनादिति ।।३१।। परमानं दलयतां परमानं दयावताम् । परमानन्दपीनाः स्मः परमानन्दचर्चया ॥३२॥ ___परमानमिति । (परमानं =) परेषां = एकान्ताऽभिनिविष्टानां मानं = कुहेतुं दलयतां स्याद्वादमुद्गरेण । (परमानं) किं भूतम् ? परः = प्रकृष्टो मानो = दर्पो यस्मात्तत्तथा (=परमानम्) । ___दयावतां अनेकान्तप्रणयितया जगदुद्दिधीर्षावतां सिताम्बरसाधूनां परमानन्दचर्चया = महोदयमीमांसया वयं (परमानन्दपीनाः) परमेण = उत्कृष्टेनाऽऽनन्देन पीनाः = पुष्टाः स्मः ।।३२।। ।। इति मुक्तिद्वात्रिंशिका ।।३१।। ३१/३२ ।।५३५।। १. हस्तादर्श ...नन्तसम्भवात्' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548