Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
।। अथ मुक्तिद्वात्रिंशिका ।।३१।। अनन्तरं कवलभोजित्वेऽपि कृतार्थत्वं केवलिनो व्यवस्थापितम् । सर्वथा कृतार्थत्वं चाऽस्य | मुक्तौ व्यवतिष्ठत इति बहुविप्रतिपत्तिनिरासेन मुक्तिरत्र व्यवस्थाप्यते
दुःखध्वंसः परो मुक्तिर्मानं दुःखत्वमत्र च ।
आत्मकालाऽन्यगध्वंसप्रतियोगि'न्यवृत्तिमत् ॥१॥ दुःखध्वंस इति । परो दुःखध्वंसो मुक्तिः । परत्वं च समानकालीन-समानाधिकरणदुःखप्रागभावाऽसमानदेशत्वं वर्धमानग्रन्थे श्रूयते ।
तत्र च यद्यत्स्वसमान कालीन-स्वसमानाधिकरणदुःखप्रागभावसमानदेशमिदानींतनदुःखध्वंसादि तत्तद्भेदो निवेश्यः, अन्यथा चरमदुःखध्वंससमानकालीनसमानाधिकरणदुःखप्रागभावाऽप्रसिद्धः ।
वस्तुतः समानाधिकरणदुःखप्रागभावाऽसमानकालीनदुःखध्वंसो मुक्तिरित्येकं लक्षणम् ।
अपरं च समानकालीनदुःखप्राग भावाऽसमानाधिकरणो दुःखध्वंस इति लक्षणद्वये तात्पर्यम्। तेन नाऽसमानदेशत्वविवेचनेऽन्यतरविशेषणवैयर्थ्यम् ।
मानं = प्रमाणं च अत्र = मुक्तौ दुःखत्वं इति पक्षः । आत्मकालाऽन्यगः = आत्मका१. हस्तादर्श ...गिनिवृ...' इत्यशुद्धः पाठः । २. हस्तादर्श 'च' नास्ति । ३. हस्तादर्श 'स्वसमोना' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भावसामा..' इत्यशुद्धः पाठः ।
(५१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548