Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 533
________________ वेदान्तिनस्त्वविद्यायां निवृत्तायां विविक्तता । सेत्याहुः सापि नो तेषामसाध्यत्वादवस्थितेः ।।१७।। वेदान्तिनस्त्विति । वेदान्तिनस्तु अविद्यायां निवृत्तायां विविक्तता = केवलाऽऽत्मा| ऽवस्थानं सा मुक्तिः, इति आहुः साऽपि नो तेषां युक्तेति शेषः, अवस्थितेः विज्ञान सुखात्मकस्य ब्रह्मणः प्रागप्यवस्थानाद् असाध्यत्वात् । ___'कण्ठगतचामीकरन्यायेन भ्रमादेव तत्र' प्रवृत्तिरिति तु भ्रान्तपर्षदि वक्तुं शोभत इति भावः ।।१७।। कृत्स्नकर्मक्षयो मुक्तिरित्येष तु विपश्चिताम् । __स्याद्वादाऽमृतपानस्योद्गारः स्फारनयाऽऽश्रयः ।।१८॥ कृत्स्नेति । (कृत्स्नकर्मक्षयः =) कृत्स्नानां कर्मणां ज्ञानाऽऽवरणादीनां क्षयो मुक्तिरित्येष तु विपश्चितां = एकान्तपण्डितानां स्याद्वादाऽमृतपानस्योद्गारः, स्फारा ये नयाः = तत्तत्तन्त्रप्रसिद्धार्थास्तदाश्रयः (=स्फारनयाऽऽश्रयः), षड्दर्शनसमूहमयत्वस्य जैनदर्शने "सम्मतिसम्मतत्वात् ।।१८।। नयानेवाऽत्राऽभिव्यनक्ति ऋजुसूत्रादिभिर्जान-सुखादिकपरम्परा । १. मुद्रितप्रतौ 'सेत्याह' इत्यशुद्धः पाठः । हस्तादर्श शुद्धः पाठो वर्तते । २. मुद्रितप्रतौ 'नात्र(s) प्र...' इत्यशुद्धः भ्रामकश्च पाठः । ३. हस्तादर्श '...णादिक्षयो' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'सम्मतत्वात्' इति त्रुटितः पाठः । ३१/१८ ।।५२८।। Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548