Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
4
भर
तथा पर्यायाऽर्थतया तद्धानावपि तदनुद्देशतः = आत्महानाऽनभिलाषात् । मुक्ति- ॥ पदार्थस्य च निरुपधीच्छाविषयत्वात ।।१४।।
नित्योत्कृष्टसुखव्यक्तिरिति तौतातिता जगुः ।
नित्यत्वं चेदनन्तत्वमत्र तत्सम्मतं हि नः ॥१५॥ नित्येति । नित्यमुत्कृष्टं च निरतिशयं यत्सुखं तद्व्यक्तिर्मुक्तिः (=नित्योत्कृष्टसुखव्यक्तिः) इति तौतातिता जगुः । अत्र मते नित्यत्वमनन्तत्वं चेत्तत् = तदा नः = अस्माकं हि = निश्चितं सम्मतं, सिद्धसुखस्य साद्यपर्यवसितत्वाऽभिधानात् । तस्य च मुक्तावभिव्यक्तेः ।।१५।।
अथाऽनादित्वमेतच्चेत्तथाप्येष नयोऽस्तु नः ।
सर्वथोपगमे च स्यात्सर्वदा तदुपस्थितिः ॥१६॥ अथेति । अथैतत् मुक्तिसुखे नित्यत्वम् = अनादित्वं चेत्तथापि न एष 'नयोऽस्तु, संसारदशायां कर्माऽऽच्छन्नस्याऽपि सुखस्य द्रव्याऽर्थतया शाश्वताऽऽत्मस्वभावत्वात् । सर्वयोपगमे च = एकान्ततोऽनादित्वाऽऽश्रयणे च सर्वदा = संसारदशायामपि तदुपस्थितिः = मुक्तिसुखाऽभिव्यक्तिः स्यात् । अभिव्यञ्जकाऽभावेन तदा तदभिव्यक्त्यभावसमर्थने च घटादेरपि दण्डाद्यभिव्यङ्ग्यत्वस्य सुवचत्वे साङ्ख्यमतप्रवेशाऽऽपातात् ।।१६।। १. हस्तादर्श 'नयास्तु' इत्यशुद्धः पाठः ।
३१/१६
५२७।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548