Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 534
________________ क्ति द्वा शि का ३१/२० Jain Education International व्यङ्गयमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् ।।१९।। ऋजुसूत्रादिभिरिति । ऋजुसूत्रादिभिः नयैः ज्ञान-सुखादिपरम्परा मुक्तिरिष्यते, शुद्धनयैस्तैरुत्तरोत्तरविशुद्धपर्यायमात्राऽभ्युपगमात् । ज्ञानादीनां क्षणरूपतायाः क्षणसत्तयाऽपि सिद्धेः, तस्याः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात् । सङ्ग्रहेण = सङ्ग्रहनयेन आवरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिः इष्यते । तद्धि जीवस्य स्वभावः सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपाऽऽवरणेनाऽऽच्छाद्यते, प्रदीपस्याऽपवरकाऽवस्थितपदार्थप्रकाशकत्वस्वभाव इव तदावारकशरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेति । शरीराऽभावे ज्ञान - सुखाद्यभावोऽप्रेर्य एव, अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गात् । 'शरावादेः प्रदीपाद्यजनकत्वान्नोक्तप्रसङ्ग' इति चेत् ? न तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तद'नावारकत्वप्रसङ्गादिति ।।१९।। क्षयः प्रयत्नसाध्यस्तु व्यवहारेण कर्मणाम् । न चैवमपुमर्थत्वं द्वेषयोनिप्रवृत्तितः ।। २० ।। क्षय इति । व्यवहारेण तु प्रयत्नसाध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वय१. हस्तादर्शे 'स्वयम्' इत्यशुद्धः पाठः व्याख्यानुसारेण । २. हस्तादर्शे 'व्यंपि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'तरना...' इयशुद्धः पाठः । ४. हस्तादर्शे 'चैवपुम...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।। ५२९ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548