Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
149 dE has to
क्ति
द्वा
शि
का
३१/११
Jain Education International
त्रिकालाऽनुगताऽऽत्मलक्षणम् आधारं विना एषा मुक्तिः कदर्थना, सन्तानस्याऽवास्तवत्वेन बद्ध-मुक्तव्यवस्थाऽनुपपत्तेः, सर्वथाऽभावीभूतस्य क्षणस्योत्तरसदृशक्षणजननाऽसामर्थ्यादिति ।।९।। विवर्तमानज्ञेयाऽर्थाऽपेक्षायां सति चाऽऽश्रये ।
अस्यां विजयतेऽस्माकं पर्यायनयदेशना । । १० ॥
=
विवर्तमानेति । विवर्तमानाः प्रतिक्षणमन्यान्यपर्यायभाजो ये ज्ञेयार्थास्तदपेक्षायाम् (= विवर्तमानज्ञेयाऽर्थाऽपेक्षायां ) आश्रये च अन्वयिद्रव्यलक्षणे सति अस्यां = उक्तमुक्त अस्माकं पर्यायनयदेशना विजयते, 'प्रतिक्षिप्तद्रव्यस्य बौद्धसिद्धान्तस्य परमार्थतः पर्यायार्थिकनयाऽन्तःपातित्वात् । तदुक्तं सम्मतौ - “२ सुद्धोअणतणयस्स उ परिसुद्धा पज्जवविअप्पो” ( सं . त . ३ / ४८ ) ।।१०।।
स्वातन्त्र्यं मुक्तिरित्यन्ये प्रभुता तन्मदः क्षयी ।
अथ कर्मनिवृत्तिश्चेत् सिद्धान्तोऽस्माकमेव सः ।।११।। स्वातन्त्र्यमिति । स्वातन्त्र्यं मुक्तिरित्यन्ये वदन्ति ।
=
स्वातन्त्र्यं यदि प्रभुता तदा मदः, स च क्षयी | अथ चेत् कर्मनिवृत्तिः तदा अस्माकमेव स सिद्धान्तः ।। ११ ।।
पुंसः स्वरूपाऽवस्थानं सेति साङ्ख्याः प्रचक्षते ।
१. कोबाप्रती प्रकृतिक्षि...' इति पाठ: । २. मुद्रितप्रतौ 'सुद्धो अणणयस्स' इत्यशुद्धः पाठः ।
तत्
For Private & Personal Use Only
।।५२५ ।।
www.jainelibrary.org

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548