Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
6 vERE 8
स्वत इति । (१५) स्वतः = पुण्याऽऽक्षिप्तनिसर्गतः हितमिताऽऽहाराद् व्याध्युत्पत्तिश्च काऽपि न भवति । ततो भगवतो भुक्तौ = कवलभोजने नैव 'बाधकं पश्यामः, उपन्यस्तानां तेषां निर्दलनात् । अन्येषामप्येतज्जातीयानामुक्तजातीयतर्केण निर्दलयितुं शक्यत्वादिति । तत्त्वार्थिना दिगम्बरमतिभ्रमध्वान्तहरणतरणिरुचिः अध्यात्ममतपरीक्षा निरीक्षणीया सूक्ष्मधिया ।।२८।।
तथापि ये न तुष्यन्ति भगवद्भुक्तिलज्जया । सदाशिवं भजन्तां ते नृदेहादपि लज्जया ॥२९।। दोषं वृथा पृथूकृत्य भवोपग्राहिकर्मजम् । बन्धन्ति पातकान्याप्तं दूषयन्तः कदाग्रहात् ॥३०॥ कलकैः कल्पितैर्दुष्टैः स्वामी नो नैव दूष्यते । चौराद्युत्क्षिप्तधूलीभिः स्पृश्यते नैव भानुमान् ॥३१।। परमानन्दितैरित्थं दिगम्बरविनिग्रहात् ।
प्राप्तं सिताम्बरैः शोभा जैनं जयति शासनम् ।।३२।। शिष्टा चतुःश्लोकी स्पष्टा ।।२९-३०-३१-३२।।
।। इति केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ।।३०।।
+ sh
11५१७||
३०/३२
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548