Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 524
________________ लाऽन्याऽऽकाशादिवृत्तियों ध्वंसः शब्दादेस्तत्प्रतियोगिनि शब्दादौ अवृत्तिमद् = अवर्तमानं (= आत्मकालाऽन्यगध्वंसप्रतियोगिन्यवृत्तिमत्) । शब्दादिवृत्तित्वेनाऽर्थान्तरवारणार्थमेतत् पक्षविशेषणम्, बाधाऽस्फूर्तिदशायां तत्सिद्धिप्रसङ्गात्, नियतबाधस्फोरणेनैतत्साफल्याद् । 'अवृत्तिदुःखत्व मि'त्युक्तावसिद्धिः, दुःखत्वस्य दुःखवृत्तित्वात् । _ 'ध्वंसे'त्याद्युक्तावपि धंसप्रतियोगिनि, 'कालाऽन्यवृत्ती'त्याधुक्तावपि कालान्याऽऽत्मवृत्तिदुःखध्वंसप्रतियोगिनि, कालाऽन्यत्वत्यागे चाऽऽत्माऽन्यकालवृत्तिदुःखध्वंसप्रतियोगिनि दुःखे विद्यमानत्वात् सैवेति सम्पूर्णम् । __ आत्म-कालपदेन तदुपाध्योरपि ग्रहाच्च न तस्यास्तादवस्थ्यम् ।।१।। सत्कार्यमात्रवृत्तित्वात् प्रागभावोऽसुखस्य यः । तदनाधारगध्वंसप्रतियोगिनि वृत्तिमत् ॥२॥ सदिति । असुखस्य = दुःखस्य यः प्रागभावः तदनाधारो महाप्रलयस्तत्र गच्छति यो ध्वंसो दुःखीयस्तत्प्रतियोगिनि (= तदनाधारगध्वंसप्रतियोगिनि) दुःखे वृत्तिमदिति साध्यम्। ___ वृत्तिमत्' इत्युक्तौ सिद्धसाधनं, दुःखत्वस्य दुःखे विद्यमानत्वात् । प्रतियोगिवृत्तित्वोक्तावपि दुःखाऽत्यन्ताऽभावप्रतियोगिवृत्तित्वेन, 'तद्ध्वंसे'त्याधुक्तावपि दुःखध्वंसाऽङ्गीकारात्तदेव । ___ प्रागभावाऽनाधारवृत्तित्वस्य ध्वंसविशेषणत्वे दृष्टान्ताऽसिद्धिः, प्रदीपाऽवयवानां प्रदीप.... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्ताद नास्ति । १. हस्तादर्श 'दुःखविद्य.' इत्यशुद्धः पाठः । ५१९ ।। Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548