Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 525
________________ E ।। प्रागभावाऽऽधारत्वात्तदर्थं 'दुःखे'त्यादि । प्रदीपाऽवयवास्तु दुःखप्रागभावाऽनाधारभूता इति || दृष्टान्तसङ्गतिः । 'दुःखानधिकरणे'त्यादिकरणे खण्डप्रलयेनाऽर्थान्तरता स्यादिति दुःखप्रागभावनिवेशः । सत्कार्यमात्रवृत्तित्वादिति हेतुः । वृत्तित्वमात्मत्वे व्यभिचारि, कार्यवृत्तित्वमनन्तत्वे, ध्वंसाऽप्रतियोगित्वरूपस्य तस्याऽकार्ये आत्मादौ कार्ये ध्वंसे च सत्त्वात् । कार्यमात्रवृत्तित्वमपि ध्वंसत्वे' व्यभिचारीति तदर्थं भाववृत्तित्वे सतीति विशेषणे दीयमानेऽपि न तदुद्धारः, प्रागभावध्वंसस्य प्रतियोगि-तद्ध्वंसस्वरूपत्वेन ध्वंसत्वस्याऽपि भाववृत्तित्वात् । ततः सदिति कार्यविशेषणम् ।।२।। दीपत्ववदिति प्राहुस्तार्किकास्तदसङ्गतम् । बाधाद् वृत्तिविशेषेष्टावन्यथाऽर्थान्तराऽव्ययात् ॥३॥ दीपत्ववदिति । दीपत्ववदिति दृष्टान्त इति प्राहुः तार्किका = नैयायिकाः । ___ इत्थं सर्वमुक्तिसिद्धौ चैत्रदुःखत्वादिकं पक्षीकृत्य तत्तन्मुक्तिसाधनोपपत्तेः । तत् = तार्किकमतं असङ्गतं = न्यायाऽपेतम् । (वृत्तिविशेषेष्टौ=) वृत्तिविशेषस्य = अभावीयविशेषणतया दुःखप्रागभावाऽनाधारवृत्तित्वस्य इष्टौ = साध्यकोटिनिवेशोपगमे बाधात्, १. मुद्रितप्रतौ ...ध्वंसत्वे व्यभिचारवृत्तित्वे (व्यभिचारि तदर्थं भाववृत्ते) सतीति...' इत्यशुद्धः पाठः । २. हस्तादर्श 'अभावनीय' इत्यशुद्धः पाठः । ३१/३ ५२० ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548