Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 527
________________ मोक्ष्यते तद्वदहं यदि स्यां, तदा मम विफलं परिव्राजकत्वमित्याकारा योगाऽपहा = . योगप्रतिबन्धि केत्यद एव विपक्षबाधकमिति नैवं, शमादिसम्पत्त्या स्वयोग्यत्वविनिश्चयात् । न चाऽन्योऽन्याश्रयस्तस्याः सम्भवात् पूर्वसेवया ।।५।। नैवमिति । एवं न यथोक्तं विपक्षबाधकं भवता, शमादीनां = शम-दम-भोगाऽनभिष्वङ्गादीनां मुमुक्षुचिह्नानां सम्पत्त्या (=शमादिसम्पत्त्या) स्वयोग्यत्वस्य विनिश्चयात् (=स्वयोग्यत्वविनिश्चयात्), तेषां तद्व्याप्यत्वात् । ___न 'चाऽन्योऽन्याऽऽश्रयो योगप्रवृत्तौ सत्यां शमादिसम्पत्तिस्ततश्चाऽधिकारविनिश्चयात्सेति सम्भावनीयम्, तस्याः = शमादिसम्पत्तेः पूर्वसेवया योगप्रवृत्तेः प्रागपि सम्भवात् । योगप्रवृत्तेरतिशयितशमादिसम्पादकत्वेनैव फलवत्त्वात्।। सामान्यतस्तु तत्र कर्मविशेषक्षयोपशम एव हेतुरिति न किञ्चिदनुपपन्नम् ।।५।। शमाद्युपहिता हन्त योग्यतैव विभिद्यते । तदवच्छेदकत्वेन सङ्कोचस्तेन तस्य न ॥६॥ शमादीति । शमादिभिर्मुमुक्षुलिङ्गैरुपहिता (= शमाद्युपहिता) हन्त योग्यतैव विभिद्यते, १. मुद्रितप्रतौ ' बन्धके...' इति पाठः । २. हस्तादर्श 'नेवं' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्वयोगत्व...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भवत्' इत्यशुद्धः पाठः । ५. हस्तादर्श 'त्वान्यो' इत्यशुद्धः पाठः । ५२२।। Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548