Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
भु
क्ति
व्य
व
स्था
प
न
द्वा
त्रिं
शि
का
३०/२८
has
Jain Education International
दोषजन्म
अग्निमान्द्यादिदोषजनितं तनुत्वं च चिरकालविच्छेदलक्षणं निर्दोषे भगवति नोपपद्यते । नियतविच्छेदश्च नियतकालभुक्त्याद्याक्षेपक एवेति भाव: ।। २५ ।। परोपकारहानिश्च नियताऽवसरस्य न ।
=
पुरीषादिजुगुप्सा च निर्मोहस्य न विद्यते ।। २६ ।
परोपकारेति । (१३) परोपकारस्य हानि ( = परोपकारहानिः ) च नियताऽवसरस्य भगवतो न भवति, तृतीययाममुहूर्तमात्र एव भगवतो भुक्तेः, शेषमशेषकालमुपकाराऽवसरात् । (१४) पुरीषादिजुगुप्सा च निर्मोहस्य क्षीणजुगुप्सामोहनीयकर्मणो भगवतः न विद्यते ||२६||
ततोऽन्येषां जुगुप्सा चेत्सुरासुरनृपर्षदि ।
नाग्न्येऽपि न कथं तस्याऽतिशयश्चोभयोः समः ।। २७ ।।
तत इति । ततः पुरीषादेः अन्येषां = लोकानां जुगुप्सा चेत् ? सुरासुरनृपर्षदि उपविष्टस्येति शेषः नाग्न्येऽपि तेषां कथं न जुगुप्सा ? (तस्य) अतिशयश्चोभयोः पक्षयोः समः । ततो भगवतो नाग्न्याऽदर्शनवत् पुरीषाद्यदर्शनस्याऽप्युपपत्तेः । सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणान्न दोष इति वदन्ति ||२७||
स्वतो हितमिताहाराद् व्याध्युत्पत्तिश्च कापि न । ततो भगवतो भुक्तौ पश्यामो नैव बाधकम् ।। २८ ।।
For Private & Personal Use Only
।।५१६ ।।
www.jainelibrary.org

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548