Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 520
________________ __ प्रतिकूलेति । (तत्) तस्य भुक्त्याद्यदृष्टस्य तनुत्वं च नोचितं । प्रतिकूलेन विरोधिपरिणामेनानिवर्त्यत्वात् (=प्रतिकूलानिवर्त्यत्वात् । न हि वीतरागत्वादिपरिणामेन रागादीनामिव क्षुधादीनां तथाविधपरिणामेन निवर्त्यत्वमस्ति, येन ततस्तज्जननकाऽदृष्टतनुत्वं स्यात् । ___'अस्त्येवाभोजनभावनातारतम्येन क्षुन्निरोधतारतम्यदर्शनादिति चेन्न । ततो भोजनादिगतस्य प्रतिबन्धमात्रस्यैव निवृत्तेः, शरीरादिगतस्येव 'अशरीरादिभावनया । अन्यथाऽभोजनभावनात्यन्तोत्कर्षेण भुक्तिनिवृत्तिवदशरीरभावनात्यन्तोत्कर्षेण शरीरनिवृत्तिरपि प्रसज्येतेति महत्सङ्कटमायुष्मतः । ननु भुक्त्यादिविपरीतपरिणामेन भुक्त्याद्यदृष्टस्य मोहरूपप्रभूतसामग्री विना स्वकार्याऽक्षमत्वलक्षणं तनुत्वमेव क्रियते। तनुस्थापकाऽदृष्टस्यापि अशरीरभावनया तद्भवबाह्ययोगक्रियां विरुणद्ध्येव । 'शरीरं तु प्रागेव निष्पादितं न बाधितुं क्षमत इति अस्माकं न कोऽपि दोष' इति चेत् ? न, विपरीतपरिणामनिवर्त्यत्वे भुक्त्यादेस्तददृष्टस्य रागाद्यर्जकादृष्टवद्योगप्रकर्षवति भगवति निर्मूलनाशाऽऽपत्तेर्विशेषाऽभावात् ।। घात्यघातिकृतविशेषाऽभ्युपगमे तु अघातिनां भवोपग्राहिणां यथाविपाकोपक्रममेव निवृत्ति- सम्भवादिति न किञ्चिदेतत । ३०/२५।। १. मुद्रितप्रतौ ‘शरीरादिभाव...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'निरुण...' इति पाठः । सोऽपि शुद्धः । 4 AAAAA ५१५ ।। Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548