Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
"FFE
मनसः कल्पितोच्यते, तस्याः कृतसंयमायाः सकाशात् प्रकाशस्य शुद्धसत्त्वलक्षणस्य यदा- ॥ वरणं क्लेशकर्मादि तत्क्षयः (=प्रकाशाऽऽवरणक्षयः) भवति, सर्वे चित्तमलाः क्षीयन्त इति यावत् । तदुक्तं- “बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशाऽऽवरणक्षयः” (योगसूत्र ३४३) इति ।।१४।।
स्थूलादिसंयमाद् भूतजयोऽस्मादणिमादिकम् ।
कायसम्पच्च तद्धर्माऽनभिघातश्च' जायते ।।१५।। स्थूलादीति । स्थूलादीनि स्थूलस्वरूपसूक्ष्माऽन्वयाऽर्थवत्त्वानि पञ्चानां भूतानामवस्थाविशेषरूपाणि । (१) तत्र भूतानां परिदृश्यमानं विशिष्टाऽऽकारवत्त्वं स्थूलं रूपम् । (२) स्वरूपं च पृथिव्यादीनां कार्कश्य-स्नेहोष्णता-प्रेरणाऽवकाशदानलक्षणम् । (३) सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । (४) अन्वया गुणाः प्रकाशप्रवृत्ति-स्थितिरूपतया सर्वत्रैवोपलभ्यमानाः । (५) अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसम्पादनशक्तिरूपम् । तेषु क्रमेण प्रत्यवस्थं संयमात् (=स्थूलादिसंयमाद्) भूत जयो भवति। कृतैतत्संयमस्य सङ्कल्पाऽनुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः । तदुक्तं- “स्थूल-स्वरूप-सूक्ष्माऽन्वयाऽर्थवत्त्व संयमाद् भूतजयः” (योगसूत्र ३-४४) इति ।
अस्माद् भूतजयाद् अणिमादिकं भवति । (१) अणिमा, (२) गरिमा, (३) लघिमा, १. हस्तादर्श ...नभिनयातश्च' इत्यशुद्धः पाठः । ...... चिह्नद्वयवर्ती अग्रेतनपृष्ठव्यापी पाठो हस्तादर्शविशेषे नास्ति ।
२६/१५
४६१ ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548