Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
44AARI
चित्रं पुनः श्रुतं हेतुः कर्माऽऽध्यात्मिकयोस्तयोः ॥१४॥ इन्द्रियेति । (५) (इन्द्रियोद्भवताध्रौव्यं =) इन्द्रियोद्भवताया ध्रौव्यं = आवश्यकत्वं बाह्ययोः - इन्द्रियार्थसम्बन्धाऽपेक्षयोर्विलक्षणयोरेव सुख-दुःखयोः आध्यात्मिकयोः तयोः = सुखदुःखयोः पुनश्चित्रं कर्म हेतुः श्रुतम् । क्वचिबहिरिन्द्रियव्यापाराऽभावेऽपि मनोमात्रव्यापारेण सदसच्चिन्ताभ्यामेव तयोरुत्पत्तेः । क्वचिच्च तस्याऽप्यभावे आध्यात्मिकदोषोपशमोद्रेकाभ्यामेव तदुत्पत्तेर्दर्शनाद्भगवत्यपि द्विविधवेदनीयोदयध्रौव्ये तयोः सुवचत्वादिति ।
वस्तुतो बाह्ययोरपि सुखदुःखयोरिष्टाऽनिष्टाऽर्थशरीरसम्पर्कमात्र प्रयोजकम्, न तु बहिरिन्द्रियज्ञानमपीति भगवति तृणस्पर्शादिपरीषहाभिधानं साम्प्रदायिक सङ्गच्छत इति न किञ्चिदेतत् ।।१४।। __आहारादिप्रवृत्तिश्च मोहजन्या यदीष्यते ।
देशनादिप्रवृत्त्याऽपि भवितव्यं तदा तथा ॥१५॥ ___ आहारादीति । (६) आहारादिप्रवृत्तिश्च यदि मोहजन्येष्यते भवता बुद्धिपूर्वकपरद्रव्यविषयकप्रवृत्तेर्मोहजन्यत्वनियमात्, तदा देशनादिप्रवृत्त्याऽपि भगवतः तथा = मोहजन्यत्वेन भवितव्यम् ।।१५।। ___ इच्छाऽभावाद् भगवतो नास्त्येव देशनाप्रवृत्तिः, स्वभावत एव च तेषां नियतदेशकाला देशना इतीष्टापत्तावाह
(५०९।।
का
॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548