Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 513
________________ ts to de ? dE to 21 has its do f के व क्ति व्य व स्था प न द्वा त्रिं शि का ३०/१३ Jain Education International नैव जानन्ति ॥ १२ ॥ पुण्यप्रकृतितीव्रत्वादसाताद्यनुपक्षयात् । स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते ।।१३।। पुण्येति। पुण्यप्रकृतीनां तीर्थकरनामादिरूपाणां तीव्रत्वात् तीव्रविपाकत्वात् (पुण्यप्रकृतितीव्रत्वात्) तज्जन्यसातप्राबल्ये वेदनीयमात्रस्य दग्धरज्जुसमत्वाऽसिद्धेरसातादीनामनुपक्षयादसातवेदनीयस्याऽपि तदसिद्धेः । पापप्रकृतीनां भगवति रसघातेन नीरसत्वाऽभ्युपगमे स्थितिघातेन निःस्थितिकत्वस्याऽप्याऽपत्तेः, अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः । ननु तर्हि कथं भवोपग्राहिकर्मणां केवलिनां दग्धरज्जुकल्पत्वाऽभिधानमावश्यकवृत्त्यादौ श्रूयते ? इत्यत आह- स्थितिशेषाद्यपेक्षं वा तद्वचो = दग्धरज्जुकल्पत्ववचो व्यवतिष्ठते, न तु रसाऽपेक्षया, अन्यथा सूत्रकृतवृत्तिविरोधप्रसङ्गात् । असातादिप्रकृतीनामदुःखदत्वाभिधानमपि आवश्यकनिर्युक्त्यादौ घातिकर्मजन्यबहुत सुखविलयेनाल्पस्याऽविवक्षणात् । अन्यथा भवोपग्रहाऽयोगादिति विभावनीयं सुधीभिः ।।१३।। इन्द्रियोद्भवताध्रौव्यं बाह्ययोः सुखदुःखयोः । १. मुद्रितप्रतौ 'कृट्ट..' इत्यशुद्धः पाठः । २ मुद्रितप्रतौं ' ..मसुखदत्वा ...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ... 'येनान्यस्या ( नाल्पस्या) वि...' इति पाठः । For Private & Personal Use Only ||५०८ || www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548