Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
व्युत्थानमिति । व्यवहारे आत्ममात्रप्रतिबन्धलक्षण ध्यानप्रतिबन्धेन व्युत्थानं चेत् ? |
न, ध्यानाऽप्रतिबन्धतः सुव्यापारलक्षणस्य तस्य करणनिरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामेव तत्प्रतिबन्धकत्वात् ।। ___एकध्यानान्तरं पुनः ध्यानान्तराऽऽरम्भे मैत्र्यादिपरिकर्मणि स्थितम् । तथा च तावन्मात्रेण व्युत्थानत्वे समाधिप्रारम्भस्याऽपि व्युत्थानत्वाऽऽपत्तिरिति न किञ्चिदेतत् ।।३०।।
विचित्रत्वमनालोच्य बकुशत्वादिना श्रुतम् ।
दीक्षाशुबैकरूपेण वृथा भ्रान्तं दिगम्बरैः ।।३१।। विचित्रत्वमिति । बकुशत्वादिना श्रुतं प्रवचनादाकर्णितं विचित्रत्वमनालोच्य दीक्षाया यच्छुद्धमेकं रूपं परमोपेक्षामात्रलक्षणं तेन (-दीक्षाशुबैकरूपेण) वृथा दिगम्बरैर्धान्तम्',
यैः प्रतिक्षिप्यते व्यवहारकाले दीक्षापारम्यम ।
शुद्धदीक्षाकारणाऽवलम्बने उपरितनोत्कर्षाऽभावेऽपि दीक्षामात्राऽप्रतिक्षेपे च धर्मोपकरणधरणेऽपि तेषां तदव्याघातः स्यात् । बुद्धिपूर्वकममत्वपरिहारस्याप्याहारादिग्रहणवदुपपत्तेरित्यन्यत्र विस्तरः ।।३१।।
चित्रा क्रियात्मना चेयमेका सामायिकात्मना ।
तस्मात् समुच्चयेनाऽऽर्यैः परमानन्दकृन्मता ॥३२॥ १. मुद्रितप्रतौ '...लक्षणं ध्यान....' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तादर्श च '...पाणामिव...' इत्यशुद्धः पाठः। ३. हस्तादर्श '...: द्विः भ्रा...' इत्यधिकः पाठः ।
२८/३२
४९२।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548