Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
मोहात्परप्रवृत्तेश्च सातवेद्याऽनुदीरणात् ।
प्रमादजननादुच्चैराहारकथयाऽपि च ॥३॥ __मोहादिति । (७) मोहात् = मोहनीयकर्मणः (च) परप्रवृत्तेः परद्रव्यप्रवृत्तेर्निर्मोहस्य | सत आहारादिपरद्रव्यप्रवृत्त्यनुपपत्तेः । (८) सातवेद्यस्य सातवेदनीयस्याऽनुदीरणात् ( सातवेद्यानुदीरणात्) सातासातमनुजायुषामुदीरणायाः सप्तमगुणस्थान एव निवृत्तेः । __ केवलिनः कवलभुक्तौ तज्जन्यसातोदीरणप्रसङ्गात् । (९) च पुनराहारकथयाऽप्युच्चैः = अत्यर्थं प्रमादजननात् आहारस्य सुतरां तथात्वात् ।।३।।
भुक्त्या निद्रादिकोत्पत्तेस्तथा ध्यान-तपोव्ययात् ।
परमौदारिकाङ्गस्य स्थास्नुत्वात्तां विनापि च ।।४।। भुक्त्येति । (१०) भुक्त्या = कवलाहारेण निद्रादिकस्योत्पत्तेः (=निद्रादिकोत्पत्तेः), आदिना रासनमतिज्ञानेर्यापथपरिग्रहः । केवलिनां च निद्राद्यभावात्तद्व्याप्यभुक्तेरप्ययोगात् । (११) तथा भुक्तौ सत्यां ध्यानतपसोळयात् (=ध्यानतपोव्ययात्), केवलिनश्च तयोः सदातनत्वात् ।
(१२) तां विनापि च = भुक्तिं विनाऽपि च परमौदारिकाऽङ्गस्य स्थाष्णु(स्नु)त्वात् ३०/४ ||
|| = चिरकालमवस्थितिशीलत्वात् तदर्थं केवलिनस्तत्कल्पनाऽयोगात् ।।४।।
P 144P 4 #
।।५०४।।
का
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548