Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 489
________________ इहेति । इह = दीक्षायां आदौ प्रथमं वचनक्षान्तिः । अनन्तरं धर्मक्षान्तिः भवति । अनुष्ठानं च वचनाऽनुष्ठानात् अध्ययनाद्यभिरतिलक्षणादनन्तरं तन्मयीभावेन स्पर्शाऽऽप्तौ सत्यां असङ्गकं स्यात् ।।६।। उपकाराऽपकाराभ्यां विपाकाद्वचनात्तथा । धर्माच्च समये क्षान्तिः पञ्चधा हि प्रकीर्तिता ।।७।। उपकारेति । (१) उपकारेण क्षान्तिः उपकारिप्रोक्तदुर्वचनाद्यपि सहमानस्य । (२) अपकारेण क्षान्तिः ‘मम दुर्वचनाद्यसहमानस्याऽयमपकारी भविष्यती'त्याशयेन क्षमां कुर्वतः। (३) विपाकात् चेहपरलोकगताऽनर्थपरम्परालक्षणादालोच्यमानात् शान्तिविपाकक्षान्तिः । (४) तथा वचनात् क्षान्तिरागममेवाऽऽलम्बनीकृत्योपकारित्वादिनैरपेक्ष्येण क्षमां कुर्वतः । (५) धर्मात् च आत्मशुद्धस्वभावलक्षणाज्जायमाना क्षान्तिश्चन्दनस्येव शरीरस्य च्छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी सहजत्वेनाऽवस्थिताऽविकारिणी। एवं पञ्चधा (हि) क्षान्तिः समये प्रकीर्तिता'। यदुक्तं- "उपकार्यपकारि-विपाक-वचनधर्मोत्तरा मता शान्तिरिति” (षोडशक १०/१०)।।७।। प्रीति-भक्ति-वचोऽसङ्गरनुष्ठानं चतुर्विधम् । २८/७ ||४८४|| १. हस्तादर्श 'छेदददाहा...' इत्यधिकतयाऽशुद्धः पाठः । २. हस्तादर्श 'कीर्तितात्' इत्यधिकतयाऽशुद्धः पाठः । ३. हस्तादर्श 'संगर' इत्यशुद्धः त्रुटितव पाठः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548