________________
चन्द्रशप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू. ३. द्वितीययुगसंवत्सरनिरूपणम् ३९९ पर्व भाद्र पदमासामावास्या लक्षणं सूर्य उत्तरफाल्गुनी नक्षत्रस्य चतुरो मुहूर्तान् , एकस्य च मुहूर्तस्य षड् विंशतिं द्वाषष्टिभागान् , एकस्य च द्वाषष्टि भागस्य दो सप्तपष्टिभागौ भवत्वा समाप्तिनयतीति ।३। इत्येतानि त्रीणि पर्वाणि गणितेन प्रदर्शितानि अनयैव रीत्या शेपेपु पर्वस्वपि सर्व समापकानि सूर्यभोगनक्षत्राणि स्वयमूहनीयानीति ।
अत्र युग पूर्वार्धभावि द्वाषष्टि पर्व गत सूर्यनक्षत्रसूचिका इमाश्चतस्रो गाथाः प्रदर्श्यन्ते
"सप्प-भग-अज्जमदुगं, हत्थो चित्ता विसाह मित्तो य । जेहाइयं च छक्कं अजाभिवुड्ढी दु पूसासा ॥१॥ छक्कं च कत्तियाई, पिइ-भग अज्जमदुगं च चित्ता य । वाउ विसाहा अणुराह जेट्ट आउंच वीसु दुगं ॥२॥ सवणधणिट्ठा अनदेव अभिवुडूढी दुमस्स जम बहुला ॥ रोहिणि सोम दिइ दुगं, पुस्सों पिइ भगज्जमा हत्थो ॥३॥ चित्ता य जिवज्जा, अभिई अंताणि अट्ट रिक्खाणि ।
एए जुग पुन्बद्धे, विसट्रिपव्वेसु रिक्वाणि ॥४॥
छाया-सर्प १ भग २ अर्यमद्विकं ४ हस्त ५ चित्रा ६ विशाखा, मित्रं च । ज्येष्ठादिकं च षट्कं १४, अज १५ अभिवृद्धि द्विकं १७ पुण्याश्चो १९ ॥१॥ पट्टकं च कृत्तिका दि २५ पितृ २६ भग २७ अर्यमद्विकं २९ च चित्रा ३० च । वायुः ३१ विशखा ३२ अनुराधा ३३ ज्येष्ठा ३४ आयुः ३५ विश्वद्विकम् ३, ॥२॥ श्रवणः ३८, धनिष्ठा ३९ अजदेवः ४० अभिवृद्धिद्विकं ४२ अश्व ४३ यमबहुलौ ४५ रोहिणी ४६ सोमः ४, अदितिद्विकं ४९ पुष्यः ५० पितृ ५१ भग ५२ अर्यमा ५३ हस्त ५४ चित्रा ५५ च ज्येष्ठावर्जानि अभिजिदन्तानि अष्ट ऋक्षाणि ६२ । ॥३॥ एतानि युगपूर्वार्धे द्विपष्टि पर्वसु ऋक्षाणि ॥४॥ इति ।।
एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सूर्यनक्षत्र सर्पः सर्पदेवतोपलक्षिताऽश्लेषा १, द्वितीयस्य भगः-भगदेवतोपलक्षितः पूर्वफाल्गुन्यः २, ततः अर्यमद्विकमिति तृतीयस्यार्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ३, चतुर्थस्यापि उत्तरफाल्गुन्यः ४, पञ्चमस्य हस्तः ५ पष्ठस्य चित्रा ६, सप्तमस्य विशाखा ७, अष्टमस्य मित्रदेवतोपलक्षिताऽनुराधा ८, ततो ज्येष्ठादिकं पट्क ज्येष्ठादीनि पड् नक्षत्राणि क्रमेण वक्तव्यानि, तथाहि-नवमस्य ज्येष्ठा ९, दशमस्य मूलम् १०, एकादशस्य पूर्वाषाढा ११, द्वादशस्योत्तराषाढा १२, त्रयोदशस्य श्रवणः १३, चतुर्दशस्य धनिष्ठा १४, पञ्चदशस्याजः अजदेवतोपलक्षिताः पूर्वभाद्रपदाः १५, 'अभिवुढिदुर्ग' . अभिवृद्धिद्विकमिति षोड़शस्याभिवृद्धिः अभि