Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 701
________________ चन्द्रशतिप्रकाशिकाटीका० प्रा० १९ सू. १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७३ मणुचरंता' इत्यादि, 'ते' इति ते मनुष्यलोकवर्त्तिनः 'चंदा सूरागह गणाय' सर्वे चन्द्राः सर्वे सूर्याः सर्वे ग्रहगणाश्च " अणवद्वियजोगेर्हि' अनवस्थितयोगैः यथायोगमन्यान्यैर्नक्षत्रेण सह योगै र्युक्ताः सन्तः 'पयाहिणावत्तमंडला' प्रदक्षिणावर्त्तमण्डला प्र प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादिग्रहाणां दक्षिणे मेरुर्भवति यस्मिन् आवर्त्तने मण्डलपरिभ्रमणरूपे सप्रदक्षिणाः, प्रदक्षिण भवतों येषां मण्डलानां तानि प्रदक्षिणावर्त्तानि एतादृशानि मण्डलानि येषां ते प्रदक्षिणावर्त्तमण्डलाः 'मेरुमणुचरंता' मेरुमनुलक्षीकृत्य - चरन्तीति भावः । अनेनैतदुक्तं भवति सूर्यादयः समस्ता अपि मनुष्यलोकचारिणः प्रदक्षिणावर्त्तमण्डलगत्या परिभ्रमन्तीति न । इह चन्द्रादित्यप्रहाणां मण्डलानि अनवस्थितानि, नत्ववस्थितानि एकरूपेण न तिष्ठन्ति यथा योगमन्यस्मिन्नन्यस्मिन् मण्डले तेषां सञ्चरण शीलत्वात् अतएवोक्तम् ' अणवद्विय जोगेहिं चंदा सूरा गहगणाय" इति ॥ १८ ॥ नक्षत्राणां ताराणां तु मण्डलानि अवस्थितान्येव सन्ति तदेव प्रदर्शयति- 'णक्खत्ततारगाणं' इत्यादि । 'णक्खत्ततारगाणं' नक्षत्राणां तारकाणां च 'मंडला' मण्डलानि 'अवद्विया' अवस्थितानि एक'त्रैवस्थितानि 'मुणेयव्वा' ज्ञातव्यानि । अयं भावः नक्षत्राणां तारकाणां चैकैकं प्रत्येकं मण्डलम् 'आकालमिति सकलकालाविधि' प्रतिनियतमेव भवति । अत्र अवस्थित मण्डलत्वकथने एवं न ज्ञातव्यं यदेतेषां गतिरेव न भवति, किन्तु गतिस्तु भवत्येवेत्यतः सूत्रकार आह'ते विय' इत्यादि ' ते विय' तान्यपि नक्षत्राणि तारकाणि च 'पयाहिणावत्तमेव मेरुं - अणुचरंति' चन्द्रसूर्यग्रहवदेव प्रदक्षिणावर्त्तमेव प्रदक्षिणावर्त्तगत्यैव मेरुमनुचरन्ति मेरुमनुलक्षकृत्यैव परिभ्रमन्ति ॥ १९॥ अथ चन्द्रादित्यानां संक्रमणं किमूर्ध्वमधस्तिर्यग् वा भवतीत्या शङ्कायामाह-'रयणियरदिणयराणं' इत्यादि, 'श्यणियरदिणयराणं' रजनीकर दिनकराणां चन्द्रादित्यानाम् 'उड्नुं च अहे य संकमो नत्थि' संक्रमो नोर्ध्वं नाप्यधः संभवति ' तिरिए' तिर्यग् भवति । तेषाम् 'मंडलसंकमणं पुण' मण्डलसंक्रमणं पुनः 'सभितर बाहिरं' साम्यन्तरबाह्यम् अभ्यन्तरेण बाह्येन च सहितं साभ्यन्तरबाह्यम् सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डलम्, सर्वबाह्यान्मण्डलात्सर्वाभ्यन्तरं मण्डलं यावत् तिर्यक्त्वेन यातायातरूपं संक्रमणं भवति । अयं भावः - सर्वाभ्यन्तरमण्डलात्परतस्तावन्मण्डलेषु संक्रमणं स्यात् यावत्सर्वबाह्यमण्डलं परिपूर्ण चरितं भवेत् सर्वबाह्यमण्डलपर्यन्तं चारं चरतीत्यर्थः एवं सर्व बाह्यमण्डलादर्वाक् तावन्मण्डलेषु संक्रमणं स्यात् यावत् सर्वाभ्यन्तरं मण्डलं परिपूं चरितं भवेत् । चन्द्रादित्यानां सर्वाभ्यन्तरमण्डलात्सर्व बाह्यमण्डलम्, सर्व बाह्यमण्डलात्सर्वाभ्यन्तर मण्डलमितीतस्तत एव संक्रमणं तिर्यक्त्वेन भवति तथाविधजगत्स्वाभाव्यादिति ॥२०॥ साम्प्रतं चन्द्रादित्यादीनां चारप्रभावेण मनुष्याणां सुखं दुःखं च भवतीत्याह - रयणियरदि ८५

Loading...

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743