Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 741
________________ चन्द्रप्तिप्रकाशिका टीका० प्रा०२० सू ५ · अष्टाशीतिग्रह्नामानि १३ पा गृहीतापिसती, स्तब्धाय गारवित मानि - प्रत्यनीकाय ।' अबहुश्रुताय न देया, तद्विपरीताय भवेद्देया ॥२॥ श्रद्धा धृत्युत्थानोत्साहकर्म वल वीर्यपुरुपकारैः । यः शिक्षितोऽपि सन् अभाजने परिकथयेत् ॥३॥ स प्रवचनकुलगणसंघवाह्यो ज्ञानविनयपरिहोनः । अर्हत्स्थवीरगणधर मर्यादा किल भवति व्यतिक्रान्तः ||४|| तस्मात् धृत्युत्थानोत्साह कर्मबलवीर्य शिक्षितं ज्ञानम् । धर्तव्य नियमात् न च अविनयेषु दातव्यम् ॥५॥ वीरवरस्य भगवतो जरामरणवलेशदोपरहितस्य । वन्दे विनयप्रणतः, सौख्योत्पादौ सदा पादौ ॥६॥ ०६ ॥ विंशतितमं प्राभृतं समाप्तम् ॥२० चन्द्रप्राप्तिः समाप्ता. । व्याख्या-- - 'इयएस' इति - एवम् उक्तेन प्रकारेण 'एस' एषा - अनन्तरोदितस्वरूपा 'पागडत्था' प्रकटार्था - जिनवचनतत्त्ववेदिनां स्पष्टार्था 'इणमो' इयं चेत्थं प्रकटार्थापि सती 'अभव्वजणहिययदुल्हा' अभव्यजनहृदयदुर्लभा, अभव्यजनानां कृते हृदयेन - पारमार्थिकाभिप्रायेण दुर्लभा भावार्थमाश्रित्य ज्ञातुमशक्या, अभव्यत्वादेव तेपां जिनवचनस्य सम्यक्तया परिणतेरभावात् । ' उक्कित्तिया' उत्कीर्तिता कथिता, केनेत्याह- 'भगवया' भगवता ज्ञानेश्वर्यादिसंपन्नेन श्रीवर्द्धमानस्वामिना 'जोइसरायस्स पण्णत्ती' ज्योतिषराजस्य - चन्द्रस्य प्रज्ञप्तिः ॥१॥ 'एस' इत्यादि, 'एस' एपा, गहियावि' गृहीताऽपि ग्रहणविपयीकृताऽपि थद्धे' स्तब्धाय स्वभावत एव मानप्रकृत्या विनयरहिताय 'थद्धे' इत्यत्र “व्यत्ययोऽप्यासाम्" इति वचनात् चतुर्थ्यर्थे सप्तमी, एवमग्रेऽपि बोध्यम् । 'गारविय - माणि पडिणीए' गारवितमाणि प्रत्यनीकाय गारवितश्च मानी च प्रत्यनीकचेति समाहारे गारवितमानिकप्रत्यनीकम्, तस्मै तत्र गौरवम् ऋद्धिग्सशातरूपं गौरवत्रयं, तत् संजातमस्येति गारवितस्तस्मै, ऋद्धयांदि मदोपेतो हि अचिन्त्य चिन्तामणिकल्पमपीदं चन्द्रप्रज्ञप्तिसूत्र माचार्यादिकं च तद्वेत्तारमवज्ञया पश्यति, अवज्ञाच दुरन्तनरकादिप्रपातहेतुरतस्तस्मै दाननिषेधस्तदुपकारायैव जायते । तथा मानिने जात्यादि - मदोपेताय प्रत्यनीकाय - दूरभव्यत्वेन अभव्यत्वेन वा सिद्धान्तवचनानादर कारिणे । पूर्वोका -'भावनाऽत्रापि मानिप्रत्यनीकविषयेऽपि भावनोया । ' तथा 'अवहुस्सुए' अबहुश्रुताय अवगा - 'दास्तोकशास्त्राय, सहि जिनवचनेषु असंम्यग्भावितत्वात् शब्दार्थ पर्यालोचनायामसमर्थत्वाच्च यथार्थता कथ्यमानमपि न सभ्यक्तया रुचि विषयी करोति - अतएव पूर्वोक्तेभ्यः 'ण देया' नया न शिक्षयितव्या । तर्हि कस्मै देया ? इत्याह- ' तव्विवरी ए' तद्विपरीताय पूर्वोक्तदोष'वर्जिताय 'भवे देया' देया भवेत् दातव्या भवेत् । अत्र भवेदितिं क्रियापदस्य सामर्थ्य ९० ה 1

Loading...

Page Navigation
1 ... 739 740 741 742 743