Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४ . क्रान्तौ' इति धातुरदन्तश्चौगदिको वर्त्तते, चुरादयोहि धातवोऽपरिमिताः सन्ति, न तु तेषामियत्ता, केवलं यथा लक्ष्यमनुसर्त्तव्याः अत एव चुरादिगणस्यापरिमिततया परमार्थतो यथा लक्ष्यमनुसरण मवगम्य द्विवानेव चुरादि धातून् पठितवान् , न भूयसः, · ततोणिअन्तस्य-'शशनं शशः' इति घञ् प्रत्यये कृते शश इति सिद्धम् शशोऽस्यास्तीति शशी स्वविमानवास्तव्य देवदेवी शयनासनादिभिः सह कमनीयकान्तिकलितः, अनेनान्वर्थेन चन्द्रः शशीति व्यपदिश्यते । यहा 'ससी' 'इत्यस्य 'सश्रीः' इति सस्कृतं भवति, ततः सह श्रिया वर्तते इति सश्री. । श्रिया शोभया सह चर्त्तित्वेनान्वर्थेन 'ससो' इति कथ्यते । साम्प्रतं सूर्यविषयकं सूत्रमाह - 'ता कहं ते' इत्यादि प्रश्न सूत्रं सुगमम् । भगवानाह-'ता सराईया' इत्यादि 'ता' तावत् हे गौतम ! 'सराइया समया तिवा' लोके-'समयाइवा' समया इति सर्वे समया अहोरात्रादिकालस्य निर्विभागा सूर्यादिकाः सूर्य आदिर्येषां ते सूर्यादिकाः सूर्यकारणाः सूर्यमाश्रित्यैव समयाः प्रवर्तन्ते यथा-सूर्योदयमवधि कृत्वाऽहोरात्रारम्भकसमयो गण्यते नान्यथेति । एवम् 'आवलियाइवा' आवलिका इति वा, पावलिका-असख्येयसमयसमुदायात्मिकाऽऽवलिका - भवति । आणापाणूति वा' मानप्राण 'इति वा-असंख्येयाऽऽवलिका समुदाय एक आनप्राणो भवति । द्विपञ्चाशदधिक त्रिचत्वारिंशच्छत सख्यकावलिकात्मकः (४३५२) एक आनप्राण इति वृद्धाः । उक्तञ्च
. "एगो आणा पाणू तेयालीसं सय उ बावन्ना । ix आवलियपमाणेणं, अणंतनाणीहि निहिहो" ॥१॥
एक आनप्राणः त्रिचत्वारिंशच्छतानि तु द्विपञ्चाशानि ।। i) आवलिका प्रमाणेन, अनन्तज्ञानिभिनिदिष्टः ॥१॥
इतिच्छाया । "थोवेइवा' स्तोक इति वा सप्तानप्राणप्रमाण 'एकः स्तोको 'भवति, 'जाव' इति यावत् यावत्पदेन उत्सर्पिण्या अर्वाक् स्तोकादूर्व मुहूर्ताहोरात्रपक्षमासवर्षयुगादयो दृष्टव्याः उत्सपिण्यवसर्पिणी पर्यन्तम् तदेवाह-'उस्सप्पिणियोसप्पिणी इवा' उत्सर्पिण्यवसर्पिणीति वा । "एवं खलु इत्यादि, एवम् अनेन प्रकारेण खलु निश्चयेन सूर्य आदित्य , सूर्य आदित्यः आदौ भव आदित्यः 'बहुलवचनात् त्यप्रत्ययः सर्वेषां समयादिनामादिकारणत्वात् सूर्य आदित्यः कथ्यते, मत एव सूर्य आदित्य आख्यातः । 'तिवएज्जा' इति वदेत् स्वशिष्येभ्य इति ।।सू० ३॥ f, 'साम्प्रतं चन्द्र प्रस्तावाच्चन्द्राग्रमहिषीणां सूर्याप्रमहिषीणां च सख्यादि वर्णनं, ताभिः सह कामभोगसुखवर्णनं चाह-'ता चंदस्स णं' इत्यादि . - 'मूलम्--ता चंदस्स णं जोइसिंदस्स जोहसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ'?' तान्यदस्सरणं जोइसिंदस्स जोइसरण्णो चत्तारि अग्गमहिसीओ पण्णन्ताओ, तं जहा चंद. पान, दोसिणाभा २, अच्चिमाली ३ पभेकरा ४, जहा हा तं चेव जाव णो चेव मेहुणवत्तियाए । एवं पुरस्सविणेयचं । ता चंदिमवरियाणं जोइसिंदा जोइसरायाणो

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743