Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
refereाशिका टोका०प्रा. २० सु. २
राहुवक्तव्यता ७०१ मनुष्याः कथयन्ति-राहुणा चंदे वा सूरे वा बिइयरिए' राहुणा चन्द्रः सूर्यो वा व्यतिचरितः--- मध्यभागे विभिन्न विधाकृत इति । 'ता जया णं' इत्यादि, यदा राहुर्देव आगच्छन् वा ० ४ चन्द्र स्य वा सूर्यस्य वा श्यामावृत्य 'अहे सपक्खि सपडिदिसं चिट्ट' 'सपक्खि' इति सपक्ष पक्षः सह सर्वेषु तथा 'सपडिदिसिं' सप्रतिदिशमिति प्रतिदिग्भिः सह सप्रतिदिक् सर्वासु विदिक्षु तिष्ठतिः लेश्यामावृत्याधस्तिष्ठति तदा मनुष्या वदन्ति - 'राहुणा चंदे वा सूरेवा घत्थे' राहुणा चन्द्रो वा " सूर्यो वा प्रस्तः सर्वात्मना गृहीतः सर्वग्रासं प्रसति इति । अत्रास्य वाक्यस्य द्विधा कथनं तंद्र
५
बहूनां मनुष्याणां कथनापेक्षयाऽवगन्तव्यम् । अत्राह - चन्द्रविमानं पञ्चैक षष्टिभाग- (
:) न्यून
>
योजनप्रमाणं, राहुविमानं च ग्रहविमानत्वेन अर्द्वयोजनप्रमाणं शास्त्रे प्रोक्तं तर्हि कथं चन्द्रविमा -" नस्य राहु विमानेन सर्वात्मनाऽऽवरणसंभवः ? अत्रोच्यते - राहुविमानस्य महान् वहलस्त मिस्ररश्मिसमूहो वर्त्तते तेन लघियसाऽपि राहुविमानेन महता बहन तमिस्ररश्मिजालेन प्रसरतां प्राप्तेन * सकलमपि चन्द्रमण्डलमावृतं भवति इति न कश्विदोषः ॥ साम्प्रत कतिविधराहारति जिज्ञासाया' गौतमः प्रश्नयति-- 'ता कइ विहेणं' इत्यादि, 'ता' तावत् 'कविदेणं' कतिविधः खलु 'राहू पण्णत्ते'' राहुः प्रज्ञप्तः ? भगवानाह - 'दुविहे पण्णत्ते' द्विविधः द्विप्रकारको राहुः प्रज्ञप्तः 'तं जहा ' तद्यथा-'ध्रुवराहू य पव्वराहू य' ध्रुवराहुश्च पर्वराहुश्च । तत्र यः सदैव चन्द्रविमानस्य चतुरङ्गुल ' संप्राप्तः सन्नधस्तात् संचरति स ध्रुवराहुः, यस्तु पर्वणि पौर्णमास्यां चन्द्रस्योपरागं करोति पर्व राहुः कथ्यते । ‘तत्थ णं' तत्र द्वयोर्मध्ये खलु 'जे से धुवराहू' यः स ध्रुवराहुः 'से णं' स खलु 'बहुल पक्खस्स' बहुलपक्षस्य 'पाडियए' प्रतिपदि 'पण्णरसइभागेणं' पञ्चदशेन भागेन - चन्द्र-२ मण्डलस्य द्वाषष्टिभागात्मकत्वाच्चतुर्भागरूपेण 'भागं ' भागं प्रथमं भागं चतुर्भागरूपं पञ्चदशं भागं प्रतितिथि चन्द्रस्य लेश्याम् 'आवरेमाणे २' आवृण्वन् आवृण्वन् 'चिट्ठा' तिष्ठति 'तं जहा ' तद्यथा - 'पढमाए पढमं भागं' प्रथमायां तिथौ प्रतिपद्रूपायां प्रथमं पञ्चदशं भागं चतुर्भागरूप मावृणुते, एवम् 'जाव पण्णरसमं भागं' यावत् पञ्चदशं भागम् अत्र यावत्पदेन द्वितीयायां द्वितीयं २, तृतीयायां तृतीयं ३, चतुर्थ्यां चतुर्थं ४, पञ्चम्यां पञ्चमं ५, षष्टयां पष्ठं ६, सप्तम्यां सप्तमम् ७ अष्टम्यामष्टमं ८ नवम्यां नवमं ९, दशम्यां दशमम् १०, एकादश्यामेकादशं ११, द्वादश्यां द्वादशं १२, त्रयोदश्यां त्रयोदशं १३, चतुर्दश्यां चतुर्दशम् १४ इत्येवं ग्राम, ततः पञ्चदश्याम् — अमावास्या रूपायां पञ्चदशं भागं चन्द्रमण्डलस्य राहुरावृणुते, ततः 'चरमे समये * पञ्चदश्याश्चरमे समये पञ्चदश्या अन्तिमे भागे 'चंदे रत्ते. भवइ' चन्द्रो रक्तः' राहुविमानेन उपरक्तः ` सर्वात्मनाऽऽच्छादितो भवति । 'अवसेसे समए' अवशेषे कृष्णप्रतिपदात आरभ्य पञ्चदशीचरम समयात्पूर्वपूर्वकाले 'चंदे रत्ते य. चिरते य भवइ' चन्द्रो रक्तश्च विरक्तश्च राहुविमानेन क्रमश

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743