Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 728
________________ Soo चन्द्रप्रतिसूत्रे · सूर्यो वा पूर्वदिग्भागे प्रकटीभूत उपलभ्यते पश्चिमभागे अधस्ताच्च राहुरुपलभ्यते, इति १ । एवं 'जया णं' यदा खलु राहुर्देव आगच्छत्वा ४ चन्द्रसूर्ययोर्लेश्यां दक्षिणभागेन आवृत्य उत्तरभागेन व्यतिव्रजति तदा दक्षिणभागे चन्द्रसूर्यौ आत्मानमुपदर्शयतः उत्तरभागे च राहूरिति २ । 'एएणं अभिलावेणं' एतेन पूर्वोक्तेन अभिलापेन राहुदेवः पाश्चात्येन चन्द्रसूर्यलेयामाहत्य पूर्वभागेन व्यतिव्रजति ३, उत्तरभागेन, आवर्त्य च दक्षिणभागेन व्यतित्रजति २ इत्यपि सूत्रद्वयं भावनीयम् ४ । अथ विदिशा विपयकं राहुचारमाह - 'जया णं' इत्यादि, 'जया णं' यदा खलु राहुर्देवः आगच्छन् वा ४ चन्द्रसूर्यलेश्याम् ' दाहिणपुर स्थिमेणं' दक्षिपौरस्त्येन - आग्नेयकोणेन चन्द्रसूर्यले श्यामावृत्य 'उत्तरपच्चत्थिमेणं वीईवयइ' उत्तरपाश्चात्येन वायव्यकोणेन व्यति व्रजति तदा खलु 'दाहिणपुरत्थिमेणं' दक्षिणपौरस्त्येन आग्नेयकोणेन चन्द्रः सूर्योवाऽत्मानमुपदर्शयति 'उत्तरपच्चत्थिमेणं राहू' उत्तरपाश्चात्येन वायव्यकोणेन राहुरूपलभ्यते |१| यदा खल्लु राहुर्देवः ‘आगच्छमाणे वा ४' आगच्छन् वा ४ चन्द्रसूर्यलेश्याम् ' दाहिणपच्चत्थि मेणं' दक्षिणपाश्चात्येन नैऋतकोणेन आवृत्य 'उत्तरपुरत्थिमेणं वीईवयइ' उत्तरपौरस्त्येन ईशानकोणेन व्यतित्रजति तदा खलु ' दाहिणपच्चत्थिमेणं' दक्षिणपाश्चात्येन चन्द्रः सूर्यो वा उपदृश्यते 'उत्तरपुरत्थिमेणं राहू' उत्तरपौरस्त्येन ईशानकोणेन राहुर्दृश्यते |२| 'एएणं अभिलावेणं'. एतेन अभिलापेन यदा राहु: 'उत्तरपच्चत्थिमेणं' उत्तरपाश्चात्येन वायव्यकोणेन चन्द्रसूर्यले श्यामावृत्य ' दाहिणपुर स्थिमेणं वीईवयइ' दक्षिणपौरस्त्येन आग्नेयकोणेन चन्द्रः. सूर्योवा दृश्यते दक्षिणपौरस्त्येन आग्नेयकोणेन च राहुः । ३ । एवं 'उत्तरपुरत्थिमेणं' उत्तर पौरस्त्येन ईशानकोणेन चन्द्रसूर्यलेश्यामावृत्य 'दाहिणपच्चत्थिमेण वीईवयह' दक्षिणपाश्चात्येन नैऋतकोणेन व्यतिव्रजति तदा उत्तरपौरस्त्येन चन्द्रः सूर्योवा दृश्यते दक्षिणपाश्चात्येन च रहुरिति ४ । एवं स्थितौ मनुष्यलोके मनुष्याः किं वदन्ति !- इति प्रदर्श्यते- 'ता जया णं' इत्यादि, 'ता' तावत् यदा: खल, राहुर्देवः, आगच्छमाणे वा ४ आगच्छन् वा ४ चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य · व्यतिव्रजति : राहुः स्थितो भवतीत्यर्थः तदा मनुष्यलोके मनुष्या वदन्ति 'राहुणा चंदे सरे वा गहिए' राहुणा चन्द्रः सूर्योवा गृहीत इति । 'जया णं' इत्यादि, यदा खल राहुर्देवः आगच्छन्वा ४ चन्द्रस्य सूर्यस्य वा श्यामा नृत्य 'पासेपां वीईवयइ', पार्श्वेन पार्श्वभागेण व्यतिव्रजति · तदा मनुष्या वदन्ति - 'चं देण वा सरेण वा चन्द्रेणवा सूर्येणवा 'राहुस्स कुच्छीभिण्णा' राहोः कुक्षिर्भिन्नेति राहोः कुक्षिं भित्त्वा चन्द्रः सूर्योवा, निर्गत इति । 'ता जया णं' इत्यादि, यदा राहु . देव, आगच्छन् वा ० ४ चन्द्रस्य वा लेश्यामावृत्य पच्चीसकर ' प्रत्यवण्वकते - पश्चादपसर्पति तदा मनुष्या, एवं वदन्ति 'राहुणाः चंदे वा बरेवा नंते' राहुणा चन्द्रोवा, सूर्योत्रा वान्तः राहुणा ग्रस्तश्चन्द्रः सूर्यो वा पुनर्निष्कासित इति । 'ता जयाणं' इत्यादि, यदा राहुर्देव आगच्छन् वा ०४ चन्द्रस्यः सूर्यस्य वा लेश्यामावृत्य 'मज्झं मज्झेण वीईवयइ' मध्यमध्येन बहुमध्यदेशभागेन व्यतित्रजति तदा 7 ' . 2 4

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743