Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्राप्तिप्रकाशिका टीका० प्रा०२० सू २
राहुवक्तव्यता ६९७ राहोः कुक्षिः भिन्ना । तावत् यदा खलु राहुर्देष आगच्छन् वा० ४ चन्द्रस्य वा सूर्यस्य या लेश्याम् आवृत्य प्रत्यववष्कते तदा खलु मनुष्यलोके मनुण्या एवं वदन्ति-राहुणा चन्द्रो वा सूर्योवा वान्तः, राहुणा० २। तावत् यदा खलु राहुर्दव आगच्छन् वा०४ चन्द्रस्य वा सूर्यस्य वा लेश्याम् आवृत्य मध्यमध्येन व्यतिव्रजति तदा खलु मनुष्यलोकेमनुष्या वदन्ति-राहुणा चन्द्रो वा सूर्यो वा व्यतिचरितः राहुणा० २ तावत् यदा खलु राहुर्देव आगच्छन् वा ४ चन्द्रस्य वा सूर्यस्य वा लेश्याम् आवृत्य अधः सपक्ष सप्रतिदिशं तिष्ठति तदा खलु मनुष्यलोके मनुष्या वदन्ति-राहुणा चन्द्रो वा सूर्यो वा ग्रस्तः, राहुणा० २। कतिविधः स्खलु राहुः प्रज्ञप्तः १ द्विविधो राहुः प्रशप्तः, तद्यथा-ध्रुवराहुश्च पर्वराश्च । तत्र खलु यः स खलु बहुलपक्षस्य प्रतिपदि पञ्चदशभागेन भागं चन्द्रस्य लेश्याम् आवृण्वन् २ तिष्ठति, तद्यथा-प्रथमायां प्रथम भागम् , यावत् पञ्चदश भागम्। चरमे समये चन्द्रो रक्तो भवति, अवशेपे समये चन्द्रो रक्तश्च विरक्तश्च भवति, तमेव शुक्लपक्षे उपदर्शयन् २ तिष्ठति, तद्यथा-प्रथमायां प्रथम भागं यावत् चन्द्रो विरक्तश्च भवति अवशेपे समये चन्द्रो रक्तो विरक्तश्च भवति । तत्र खलु यः स पर्वराहुः स जघन्येन पण्णां मासानाम् (उपरि) उत्कण द्विचत्वारिंशतो मासानां चन्द्रस्य, अष्टचत्वारिशतः संवत्सराणां सूर्यस्य ॥ सू० ॥ २ ॥
व्याख्या--'ता कहं ते' इति, 'ता' तावत् 'कई कथं-केन प्रकारेण 'ते' तवमते त्वया वा 'राहुकम्मे' राहुकर्म राहुक्रिया 'आहिए' भाख्यातं-कथितम् ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! भगवानाह-'तत्थ खलु' इत्यादि, 'तत्थ' तत्र राहुकर्म विपये खलु 'इमाओ' इमे वक्ष्यमाणे 'दो' द्वे 'पडिवत्तीओ' प्रतिपत्ती 'पण्णत्ताओ' प्रज्ञप्ते कथिते, 'तं जहा' तद्यथा-'तत्थ' तत्र द्वयोर्मध्ये 'एगे' एके प्रथमप्रतिपत्तिवादिनः 'एवं' एवं वक्ष्यामाणप्रकारेण 'आइंस' आहुः कथयन्ति । किं कथयन्ति ? इत्याह-'अस्थि णं' इत्यादि, 'अस्थि णं' अस्ति खलु ‘से राहुदेवे' स राहुर्देवः 'जे णं' यः खलु 'चंदं वासरं वा' चन्द्रं वा सूर्य वा 'गिण्हति' गृह्णाति प्रसति । उपसंहारमाह-एगे' एके प्रथमा एवं . पूर्वोकप्रकारेण आहेसु' आहुः कथयन्ति ।१। द्वितीयां प्रतिपत्तीमाह-'एगे पुण' इत्यादि, 'एगे पुण' एके केचन द्वितीयाः-प्रतिपत्तिवादिनः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आइंस' आहुः कथयन्ति । किं कथयन्तीत्याह-नित्थिणं' इत्यादि, 'नेस्थि णं' नास्ति खल्ल 'से' स एतादृशः 'राहुदेवे' राहुर्देवः 'जे णं यः खल 'चंदं वा सूरं वा' चन्द्रं वा सूर्य वा 'गिण्हइ' गृह्णाति ।। तदेवं द्वे प्रतिपत्ती प्रदय भगवान् तयो र्भावनां प्रदर्शयति-तत्थजे ते' इत्यादि, 'तत्थ' तत्र एतयो द्वयोः प्रतिपत्तिवादिनोर्मध्ये 'जे ते एव माइंसु ये ते प्रथमप्रतिपत्तिवादिनः एवम् 'अस्थि णं से राहूदेवे' इत्यादिरूपेण आहुः कथयन्ति तथाहि-'ता अस्थि णं' इत्यादि, 'ता' तावत् 'अस्थि णं' अस्ति खल राहुर्देवश्चन्द्रं वा सूर्य
८८

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743