________________
चन्द्रशतिप्रकाशिकाटीका० प्रा० १९ सू. १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७३ मणुचरंता' इत्यादि, 'ते' इति ते मनुष्यलोकवर्त्तिनः 'चंदा सूरागह गणाय' सर्वे चन्द्राः सर्वे सूर्याः सर्वे ग्रहगणाश्च " अणवद्वियजोगेर्हि' अनवस्थितयोगैः यथायोगमन्यान्यैर्नक्षत्रेण सह योगै र्युक्ताः सन्तः 'पयाहिणावत्तमंडला' प्रदक्षिणावर्त्तमण्डला प्र प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादिग्रहाणां दक्षिणे मेरुर्भवति यस्मिन् आवर्त्तने मण्डलपरिभ्रमणरूपे सप्रदक्षिणाः, प्रदक्षिण भवतों येषां मण्डलानां तानि प्रदक्षिणावर्त्तानि एतादृशानि मण्डलानि येषां ते प्रदक्षिणावर्त्तमण्डलाः 'मेरुमणुचरंता' मेरुमनुलक्षीकृत्य - चरन्तीति भावः । अनेनैतदुक्तं भवति सूर्यादयः समस्ता अपि मनुष्यलोकचारिणः प्रदक्षिणावर्त्तमण्डलगत्या परिभ्रमन्तीति न । इह चन्द्रादित्यप्रहाणां मण्डलानि अनवस्थितानि, नत्ववस्थितानि एकरूपेण न तिष्ठन्ति यथा योगमन्यस्मिन्नन्यस्मिन् मण्डले तेषां सञ्चरण शीलत्वात् अतएवोक्तम् ' अणवद्विय जोगेहिं चंदा सूरा गहगणाय" इति ॥ १८ ॥ नक्षत्राणां ताराणां तु मण्डलानि अवस्थितान्येव सन्ति तदेव प्रदर्शयति- 'णक्खत्ततारगाणं' इत्यादि । 'णक्खत्ततारगाणं' नक्षत्राणां तारकाणां च 'मंडला' मण्डलानि 'अवद्विया' अवस्थितानि एक'त्रैवस्थितानि 'मुणेयव्वा' ज्ञातव्यानि । अयं भावः नक्षत्राणां तारकाणां चैकैकं प्रत्येकं मण्डलम् 'आकालमिति सकलकालाविधि' प्रतिनियतमेव भवति । अत्र अवस्थित मण्डलत्वकथने एवं न ज्ञातव्यं यदेतेषां गतिरेव न भवति, किन्तु गतिस्तु भवत्येवेत्यतः सूत्रकार आह'ते विय' इत्यादि ' ते विय' तान्यपि नक्षत्राणि तारकाणि च 'पयाहिणावत्तमेव मेरुं - अणुचरंति' चन्द्रसूर्यग्रहवदेव प्रदक्षिणावर्त्तमेव प्रदक्षिणावर्त्तगत्यैव मेरुमनुचरन्ति मेरुमनुलक्षकृत्यैव परिभ्रमन्ति ॥ १९॥ अथ चन्द्रादित्यानां संक्रमणं किमूर्ध्वमधस्तिर्यग् वा भवतीत्या शङ्कायामाह-'रयणियरदिणयराणं' इत्यादि, 'श्यणियरदिणयराणं' रजनीकर दिनकराणां चन्द्रादित्यानाम् 'उड्नुं च अहे य संकमो नत्थि' संक्रमो नोर्ध्वं नाप्यधः संभवति ' तिरिए' तिर्यग् भवति । तेषाम् 'मंडलसंकमणं पुण' मण्डलसंक्रमणं पुनः 'सभितर बाहिरं' साम्यन्तरबाह्यम् अभ्यन्तरेण बाह्येन च सहितं साभ्यन्तरबाह्यम् सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डलम्, सर्वबाह्यान्मण्डलात्सर्वाभ्यन्तरं मण्डलं यावत् तिर्यक्त्वेन यातायातरूपं संक्रमणं भवति । अयं भावः - सर्वाभ्यन्तरमण्डलात्परतस्तावन्मण्डलेषु संक्रमणं स्यात् यावत्सर्वबाह्यमण्डलं परिपूर्ण चरितं भवेत् सर्वबाह्यमण्डलपर्यन्तं चारं चरतीत्यर्थः एवं सर्व बाह्यमण्डलादर्वाक् तावन्मण्डलेषु संक्रमणं स्यात् यावत् सर्वाभ्यन्तरं मण्डलं परिपूं चरितं भवेत् । चन्द्रादित्यानां सर्वाभ्यन्तरमण्डलात्सर्व बाह्यमण्डलम्, सर्व बाह्यमण्डलात्सर्वाभ्यन्तर मण्डलमितीतस्तत एव संक्रमणं तिर्यक्त्वेन भवति तथाविधजगत्स्वाभाव्यादिति ॥२०॥ साम्प्रतं चन्द्रादित्यादीनां चारप्रभावेण मनुष्याणां सुखं दुःखं च भवतीत्याह - रयणियरदि
८५