Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 720
________________ चन्द्रनन्तिसूत्रे 1 व्याख्या - 'ता कहते' इति 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'अणुभावे ' अनुभावः चन्द्रसूर्याणां स्वरूपविशेषः 'आहिए' आख्यातः कथितः ? ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! इति गौतमेन पृष्टे भगवानाह - ' तत्थ खलु' इत्यादि, 'तत्थ णं' तत्र चन्द्रसूर्यानुभावविषये खल 'इमाओ' इमे वक्ष्यमाणे 'दो पडिवत्तीओ' हे प्रति पत्ती 'पण्णत्ताओ' प्रज्ञप्ते, 'तं जहा ' तद्यथा ते द्वे यथा - 'तत्थ' तत्र द्वयोर्मध्ये 'एगे' एके प्रथमप्रतिपत्तिवादिनः ' एवं ' अनेन वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति । किं कथयन्ति ? इत्याह- 'ता चंदिमसूरियाणं' इत्यादि, 'ता' तावत् चंदिमसूरियाणं' चन्द्रसूर्याः चन्द्रमसः सूर्याश्च खलु 'णो जीवा' नो जीवाः जीवरूपा न, किन्तु 'अजीवा' अजीवाः जीववर्जिताः सन्ति, तथा 'णो घणा' नो घनाः निविडप्रदेशोपचया न, किन्तु 'झुसिरा' शुषिराः वलयवद् अन्तः प्रदेशरहिताः सन्ति, तथा 'णो वादरवदिधरा' नो बादरवोन्दिधराः, स्थूलशरीरधारकाः प्रधानसजीव सुव्यक्तावयवशरीरोपेता न, किन्तु ' कलेवरा' कलेवराः प्राण, रहित केवलशरीररूपाः, तथा 'नत्थि णं तेसिं' नास्ति खलु तेषां चन्द्रसूर्याणाम् 'उडाणे इवा' उत्थानमिति वा, उत्थानम् - ऊर्ध्वभवनरूपम् 'इति' उपदर्शने 'वा' समुच्चये 'वि' विकल्पे वा, 'कम्मे इ वा' कर्मेति वा कर्म - उत्क्षेपणावक्षेपणरूपं कर्मापि तेपां नास्ति तथा 'बलेइवा' बलमिति वा बलं शरीरसमुद्भवप्राणरूपं तदपि तेषां नास्ति तथा 'वीरिए इवा' वीर्य मितिवा, वीर्यम् - आन्तरोत्साहरूपं तदपि तेषां न तथा ' पुरिसक्कार परक्कमे इवा' पुरुषकारपराक्रममिति वा, तत्र पुरुषकार: ' पुरुषत्व समुद्भूतगौरवरूपः साघितस्वाभिमतप्रयोजनरूपः स एव एतौ द्वावपि तेषां नस्तः, अत एव ते न काञ्चन क्रियामपि कुर्वन्तीति प्रदर्शयति 'ते णो' इत्यादि, ते चन्द्रसूर्याः 'णो विज्जुं लवंति' नो विद्युतं प्रवर्त्तयन्ति कुर्वन्ति, 'वृतुवर्त्तने' इत्यस्य प्राकृते लबादेशसंभवात् प्रवर्त्तयन्तीति रूपम् । 'नो असणि लवंति" नो अशनिं प्रवर्त्तयन्ति, अशनिमिति विशिष्टप्रकारा अतिविकटगर्जन् सहिता विद्युदेव, 'नो थणियं लवंति' 'नो स्तनितं गर्जनं प्रवर्त्तयन्ति । तर्हि किमित्याह-'अहेय' इत्यादि, 'अहेय' अश्व तेषां चन्द्रसूर्याणां 'वायरे वाउकाए' बादरः स्थूलो वायुकायः 'संमुच्छइ' संमूर्च्छते तथाविध भावाद् एवं समुद्भवति, 'अहेय णं बायरे वाउकाए' मधश्व खलु स बादरों वायुकायः 'समुच्छित्ता' संमूर्व्य संमूर्च्छितो भूत्वा 'विज्जुं पि लवंति' इत्यादि, विद्युतमशनिं स्तनितं च प्रवर्त्तयन्तीति उपसंहारमाह- 'एगे पुण' इत्यादि, 'एगे' एके पूर्वोक्ताः प्रथमप्रतिपत्तिवादिनः ' एवं ' एवम् अनेन पूर्वोक्तप्रकारेण 'आह'सु' आहुः कथयन्तीति 'प्रथमा प्रतिपत्तिः ।१। अथ द्वितीयामाह - एगे पुण ' इत्यादि', 'एगे' एके द्वितीय प्रतिपत्तिवादिनः 'एवं' एवम् ं वक्ष्यमाणप्रकारेण 'आई सुं' आहुः कथयन्ति । किमित्याह - ' ता चंदि - पराक्रमः " I ६९२

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743