Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
बन्द्राप्तिप्रकाशिका टोका प्रा.२०.सू.१
चन्द्रसूर्याणामनुभावनिरूपणम् ६९३ मसरियाण' इत्यादि, 'ता' तावत् 'चंदिमसूरियाण' चन्द्रसूर्याः खल न पूर्वोक्तस्वरूपाः किन्तु ते 'जीवा' जीवाजीवरूपाः सन्ति किन्तु 'णो अजीवा' अजीव रूपा न । एवं ते घनाः सन्ति किन्तु शुपिरा न, बादरबोन्दिधराः सन्ति न तु कलेवर मात्रा, अस्ति तेषाम् उत्थानं कर्म, वलं, वीर्य, पुरुपकारः पराक्रमश्च, तेन ते विद्युतम् , अशनिम्, स्तनितं चापि प्रवर्तयन्ति । उपसंहारमाह-एगे' इत्यादि 'एगे' एके इमे द्वितीयप्रतिपत्तिवादिनः एवं पूर्वोक्तप्रकारेण कथयन्तीति द्वितीया प्रतिपत्तिः ।२। एते द्वे अपि प्रतिपत्तीमिथ्यात्वरूपे, अतो भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि 'वयं पुण' वयं तु 'एवं' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः तदेवाह-'ता चंदिमसूरियाणं इत्यादि 'ता' तावत् 'चंदिममरियाण' चन्द्रसूर्याः खलु 'देवा' देवा देवरूपाः सन्ति न तु सामान्यतो जीवमात्राः, ते पुनर्देवाः कीदृशाः ? इत्याह-'महिड्डिया' इत्यादि, 'महिदृढिया' महर्द्धिका विमानादिऋद्धिमन्तः 'महज्जुइया' महाद्युतिकाः शरीराभरणधुतिमन्तः 'महावला' महाबलाः शरीरवलसंपन्नाः 'महाजसा' महायशसः-महाख्यातिमन्तः 'महासोक्खा' ? महासौख्याः देव्यादि परिवारवत्त्वात् महासुखसंपन्नाः, 'महाणुभावा' विशिष्टवैक्रियकरणाद्यचिन्त्यशक्तिमत्त्वान्महाप्रभावशालिनः 'वरवत्थधरा' वरवस्त्रधराः विशिष्ट वर्णोपेतसुकुमालवस्त्रधारिणः 'वरमल्लधरा' वरमाल्यधराः श्रेष्ठमालाधारिणः 'वराभरणधरा' वराभरणधराः श्रेष्ठकटककेयूरादिभूपणधारिणः 'अव्वुच्छित्तिनयट्टयाए' अव्युच्छित्तिनयार्थतया द्रव्यार्थिकनयमतेन 'अण्णे चयंति' अन्ये पूर्वोत्पन्ना. स्वायुभवस्थितिक्षये च्यवन्ते, ततस्तत्र 'अण्णे' अन्ये तादृश देवायुर्वन्धकास्तत्र जघन्यतोऽन्तर्मुहूत्र्तकालेन- उत्कृष्टनः षण्मासकालव्यवधानेन 'उववज्जति' उत्पद्यन्ते ॥२०॥
पूर्व चन्द्रसूर्याणामनुभावः प्रोक्तः, साम्प्रतं चन्द्रसूर्यप्रसङ्गाद् राहु वक्तव्यतामाह-'ता कहं ते राहुकम्मे' इत्यादि ।
मूलम्-ता कहं ते राहुकम्मे आहिए ? तिवएज्जा, तत्थ खल इमाओ दो पडिवत्तीओ पण्णत्ताओ तं जहा-तत्थेगे एवमाहंसु-अस्थिणं से राहुदेवे जेणं चंदं वा सूरं वा गिण्डइ, एगे एवमाइंसु ।१। एगे पुण एवमाहंसु-नस्थि णं से राहुदेवे जे ण चंद वा सरं वा गिण्हइ ।२। तत्थ जे ते एवमाइंसु ता अस्थिणं से राहुदेवे जे ण चंदं वा सरं वा गिण्हइ ते एवमाहंसु-ता राहणं देवे चंद वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्डित्ता बुद्धं तेणं मुयइ २, मुद्धतेणं गिण्हित्ता बुद्धतेणं मुयइ ३, मुद्धतेणं गिण्डित्ता मुद्धतेणं मुयइ ४, वामभुयंतेणं गिण्हिता वामभुयंतेणं मुयइ ५, वामभुयंतेणं , गिण्हिता दाहिणभुयंतेणं मुयइ ६, दाहिणभुयंतेणं गिणिहत्ता वामभुयंतेणं, मुयइ ७, दाहिणभुयंतेणं, गिण्हिता . दाहिणभुयंतेणं मुयइ ८,, ले ने remix

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743