Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 712
________________ चन्द्रप्राप्ति चन्द्राणां तेन तत्रत्याश्चन्द्राः नातिशीतप्रकाशाः किन्तु सुखोत्पादकहेतुपरमलेश्या युक्ताः सन्ति । मंदलेश्याः-एतद्विशेषणं सूर्याणाम् तेन तत्रत्याः सूर्याः नात्युष्णतेजसः, एतदेव व्याचष्टेमंदातवलेस्सा' मन्दातपलेश्याः, मन्दा मनत्युप्ण स्वभावा मातपरूपा लेश्या रश्मिसमूहो येषां ते तथा । पुनः कीदृशाश्चन्द्रादित्याः ? इत्याह-'चित्तंतरलेस्सा' चित्रान्तरलेश्याः चित्र विचित्रम् अन्तरम्-अन्तरालं परस्परव्यवधानरूपं लेश्या च येषां ते, तथा, ते इत्थम्भूताश्चन्द्रादित्याः 'अण्णोण्णसमोगाढाहिं लेस्साहि' अन्योन्यसमवगाढाभिः परस्परसंमिलिताभिः लेश्याभिः प्रभाभिः, तथाहि-चन्द्राणां सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्ताराः, सूचि पकचा व्यवस्थितानां च तेषां चन्द्रसूर्याणां परस्परमन्तरं पश्चाशत् पश्चाशद् योजनसहस्राणि, ततश्चन्द्रप्रभासंमिश्राः सूर्यप्रभाः, सूर्यप्रभासमिश्राश्च चन्द्रप्रभा इति, इत्थं परस्पर समवगाढा. भिर्लेश्याभिः 'कूडाइव ठाणहिया' कूटानोव पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिताः स्थाने स्वस्थाने एव सदाकालं स्थिताः सन्तः 'ते परसे' तान् स्वस्व प्रत्यासन्नान प्रदेशान् 'सबओ समंता' सर्वतः समन्तात् दिक्षु-विदिक्षु 'ओभासंति' अवभासयन्तिप्रकाशयन्ति, 'उज्जोति' उद्योतयन्ति दीप्ति युक्तानि कुर्वन्ति, 'ताति' तापयन्ति सुखदतापयुकानि कुर्वन्ति "पभासेंति' प्रभासयन्ति भासमानानि कुर्वन्ति । अन्यत्सर्वं मनुष्यक्षेत्रकथितवदेव व्याख्येयम्, तथाहि-इन्द्रच्यवने चतुः पञ्च सामानिकदेवद्वारा इन्द्रस्थानपरिरक्षणम्-तत्र-इन्द्रविरहकालो जघन्येन एक समयं यावत् , उत्कृष्टेन पण्मासान् यावद् भवतीति भावः ॥सू० २॥ . 'गता पुष्करवरद्वीपवक्तव्यता, साम्प्रतं तदने स्थितानां द्वीपसमुद्राणां वक्तव्यतां प्रति पादयन् प्रथमं पुष्करवरद्वीपं पुष्करोदः समुद्रः संपरिवेष्टय तिष्ठतीति तद्वक्तव्यतामाह-'ता पुक्खरवरं णं दीव' इत्यादि । ... मूलम्-ता पुक्खरवरं णं दीवं पुक्खरोदे णामं समुद्दे बट्टे वलयागारसंठाणसंठिए नाव चिहइ, एवं विक्खभो, परिक्खेवो जोइस च भाणियव्यं जहा जीवाभिगमे जाव सयंभूरमणे ॥१० ३॥ .. छाया-तावत् पुष्कारवर खलु द्वीपं पुकारोदो नाम समुद्रः वृत्तः वलयाकार संस्थानसंस्थितः यावत् तिष्ठति, एवं विष्कम्भा, परिक्षेप, ज्योतिष्कंच भणितव्यं यथा नीवाभिगमे यावत् स्वयम्भूरमण । सू० ३॥ . . व्याख्या-'ता पुक्खरवरं णं दीवं' इति 'ता' तावत् 'पुक्खरवरं णं दीव' पुष्कर वरं : खल द्वीपम् . 'पुक्खरोदे णामं समुद्दे' पुष्करोदो नाम समुद्रः, कीदृशः ? इत्याह-'वट्टे' इत्यादि, 'वट्टे' वृत्तः गोलाकारः, गोलाकारस्तु घनरूपेणापि स्यादत आह-'वलयागारसंठाण संठिए' वलयाकारम् अन्तः शुषिरत्वात्, तद्रूपं सस्थान माकारः, तेन संस्थितः वलयाकृति

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743