Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 710
________________ . चन्द्रप्राप्तिस्त्र स्थानस्थिताः तान् प्रदेशान् सर्वतः समन्ताद् अवभासयन्ति, उद्योतयन्ति, तापयन्ति, प्रभासयन्ति । तावत् तेषां खलु देवानां यदा इन्द्रः च्यवते अथ कथमिदानी प्रकुर्वन्तिी तावत् चत्वारः'पञ्च सामानिकदेवा तत् स्थानमुपसंपद्य खलु विहरन्ति यावद् अन्योऽत्र इन्द्रः उपपन्नो भवति । तावत् इन्द्रस्थान खलु कियता कालेन विरहितं प्राप्तम् ? तावद जघन्येन एक समयम् उत्कृष्टेन पण्मासान् (सू०२)। '. • व्याख्या-'अंतो मणुस्स खेते' इति, मनुष्यक्षेत्रमध्ये ये चन्द्रादयो देवास्ते किम् 'उड्ढोववन्नगा' इत्यादि, ऊोपपन्नकाः उचं सौधर्मादि द्वादशकल्पेभ्य उपरि उपपन्नाः '? कि कल्पोपपन्नकाः सौधर्मादिकल्पेषु उपपन्नाः ! किं विमानोपपन्नाः सामान्यविमानेपु उपपनाः किं चारोपपन्नकाः, चारो मण्डलगत्या परिभ्रमणं, तमुपपन्नाः तमाश्रिताः ? किं चारस्थितिका:-चारस्य स्थितिरभावो येषां ते तथा चारवर्जिताः ? गतिरतिकाः गतौ रतिरासक्तिर्येषां ते तथा गतिप्रिया: 'अत्रं गतौ रतिमात्रेमुक्तम्, साम्प्रतं साक्षाद् गतिविषयं प्रश्नं करोति, 'किं गइ समांपन्नगा' किं गतिसमापन्नकाः गतियुक्ताः ? भगवानाह-'ता ते णं देवा' इत्यादि, तावत् ते चन्द्रसूर्यादयों देवों नो ऊोपपन्नकाः नापि कल्पोपपन्नकाः किन्तु विमानोपपन्नकाः विमानेष्वेव ज्योंतिष्कविमानेष्वेव तेषामुत्पत्तिसद्भावात्, तथा चारोपपन्नकाः परिभ्रमणशीलाः किन्तु नो चारस्थितिका चाररहिता नेत्यर्थः, गतिरतिकाः स्वभावतोऽपि गतिप्रियास्ते देवाः, एतावदेव न किन्तु गतिसमापन्नकाः . गतियुक्ता अपि सन्ति मनुष्यक्षेत्रान्तर्वर्तिनश्चन्द्रसूर्यग्रहगणनक्षत्रतारारूपा अहेवा, इति । साम्प्रतमेपां तापक्षेत्रादिवक्तव्यतामाह-'उड्दमुह' इत्यादि, ऊर्ध्वमुखीकृतकदः नकपुष्पवत् संस्थानम् अन्तः संकुचितबहिर्विस्तृतत्वात्तादृशं संस्थानं तेन संस्थितैः तदाकारैः योजनसहिनिकैः अनेकसहस्रयोजनप्रमाणैस्तापक्षेत्रैः, साहनिकाभिः अनेक सहस्रसंख्याभिर्वा याभिः, अत्र 'बहुवचनं व्यक्तय पेक्षया, वैकुर्विकाभिः विकुर्वितनानारूपधारिणीभिः पर्पद्धिः' 'महयाहय इत्यादि तत्र महताहतानि महता रवेणेत्यग्रेण सम्बन्धः, अहतानि अक्षतानि असवलि तानि यानि नाट्यानि गीतानि वादित्राणि च, याश्च तन्त्र्यो-वीणाः ये च तलतालाः हस्ततालाः, यानि च त्रुटितानि-शेषाणि तूर्याणि, ये च घनाः-घनाकाराः ध्वनिसाधात् पटुना-निपुणपुरुषेण प्रवादिता मृदङ्गाः, तेषां महता रवेण, तथा 'महयाउक्किद्विसीहनादकलकलरवेणं' उत्कृष्टितः स्वभाः बतो गतिरतिकबाह्यपरिषदन्तर्गतर्देवैर्वेगेन गच्छत्सु विमानेषु उत्कर्षवशात् ये मुच्यन्ते सिंहनादाः : सिंहगर्जनरूपाः शब्दाः, यश्च क्रियमाणो बोलः, बोलो नाम यत् मुखे हस्तं दत्त्वा महताशब्देन प्रतिक्रयतेः सः, यश्च कलकलो व्याकुलः शब्दसमूहः, तद्रवेण, एतादृश शब्दपूर्वक मित्यर्थः 'अच्छं' "अंतीवं स्वच्छम् अतिनिर्मलजाम्बूनदरत्नबहुलत्वात् पर्वतराजं पर्वतेन्द्रं 'पयाहिणावत्तमंडलचार' प्रदक्षिणावर्त्तमण्डलगत्या प्र-प्रकर्षण दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां मेरुदक्षिण एवं भवति यस्मिन्नावर्ते मण्डलपरिभ्रमणरूपे स प्रदक्षिणः, एतादृशः, प्रदक्षिण भावत्तों येषां ।। ।

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743