Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 697
________________ चन्द्रशतिप्रकाशिकाटीका० प्रा० १९ सू. १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६६९ - ' जाव' इत्यादि, यावत् 'एग ससी परिवारो तारा गण कोडी कोडीणं' एक शशिपरिवारः तारागण कोटी कोटीनाम् इत्येतत्पर्यन्तं चत्वारिंशत्तम गाथावधिकं पठनीयमिति । " अस्य- आयामविष्कम्भप्रश्नः सूत्रे एव भगतः, परिक्षेप प्रश्नादारभ्य जीवाभिगमोक्तः पाठः प्रदर्श्यते- 'केवईए परिक्खेवेणं' इत्यादि, 'केवड़ए परिक्खेवेणं आहिए' कियत्कं परिक्षेपेण आख्यातम् ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! एवं गौतमेन पृष्टे भगवानाह 'ता पणयालीसं' इत्यादि, इदं मनुष्यक्षेत्रं पञ्चचत्वारिंशल्लक्षयोजनपरिमित मायामविष्क्रम्भेण (४५०००००) आख्यातम्, तथा परिधिमाह - 'एगा जोयण कोडी' इत्यादि, एका योजन कोटी, द्विचत्वारिंगल्लक्षाणि ऐकोन पञ्चाशदधिके योजनशते - (१४२००२४९) एतावत्परिमितं ननुण्यक्षेत्रं परिक्षेपेण आख्यातमिति । अस्यायामविष्कम्भपरिमाणं पञ्च चत्वारिंगल्लक्षाणि यथा एकं लक्षं जम्बूद्वीपे ? ततो लवण समुद्रे पूर्वापरतो द्वे द्वे लक्षे इति व लक्षाणि, धातकी पण्डे एकतोऽपरतश्च चत्वारि चत्वारि लक्षाणीति अष्टौ लक्षाणि, कालोंदसमुद्रे एकतोऽपरतश्च अष्टौ अष्टौ लक्षाणीति षोडश लक्षाणि आभ्यन्तर पुष्करा र्द्धेऽपि एकतोऽपरतश्च अष्टौ अष्टौ लक्षाणीति पोडश लक्षाणि (१.४-८ = १६-१६ - ४५ ) इति सर्वसख्या संमेलनेन जायन्ते पश्चचत्वारिंशल्लक्षाणि (४५००००० ) । परिधिगणितभावना तु 'विक्खभवग्ह गुणः' इत्यादि करणवशात् स्वयं कर्त्तव्या । अथ चन्द्रादिविषये गौतमः पृच्छति - 'ता मणुस्सखेत्तेणं' इत्यादि 'ता' तावत् 'मणुस्स खेत्तेणं' मनुष्यक्षेत्रे खलु 'केवइया चंदा पभासिसुवा ३ 'कियन्तश्चन्द्राः प्रभासयन् वा ३, 'पृच्छा तहेव' पृच्छा तथैव तथाहि कियन्तः सूर्या अतापयन् वा ३ कियन्ति नक्षत्राणि योगमयुञ्जन् वा ३ कियन्तो महाग्रहाश्चारमचरन् वा, कियत्यस्तारा शोभामगोभन्तवा ३ ? इति प्रश्न; भगवानाह 'ता बत्तीसं चंदसयं' इत्यादि, तावत् द्वात्रिंशदधिकशत सख्यकाश्चन्द्राः प्राभासयन् वा ३ द्वा त्रिर्शदधिकशतसंख्यका एव सूर्या अतापयन् वा ३ । नक्षत्राणि - ' तिण्णि सहस्सा' इति पण्णवत्यधिक पट्ातोत्तरसहस्रत्रय (३६९६) संख्यकानि योगमयुञ्जन् वा ३ । महाग्रहाः–‘एक्कारस सहस्सा' इति - षोडशोत्तर षट्शताधिकैकादशसहस्र (११६१६) संख्यका श्वारमचरन् वा ३, तारापरिमाणमाह - 'अट्ठासी इं' इत्यादि, अष्टाशीतिः लक्षाणि चत्वारिंशच्च सहस्राणि सप्त च शतानि (८८४०७००) तारागण कोटोकोट्य. शोभामशोभन्त वा ३ । नक्षत्रादीना संख्या भावना - नक्षत्रगृहताराणां स्वस्व परिवार संख्याया अत्रत्य चन्द्रसंख्यया द्वात्रिंशदधिकशत ( १३२ ) रूपया गुणने नक्षत्रादीनां संख्या समायातीति स्वयं करणीयम् । अत्र आभ्यन्तरपुष्करार्द्धमनुष्यक्षेत्रयोरेतयोर्द्वयोरपि आयामविष्कम्भ - परिधिप्रमाण-चन्द्रादिसख्या प्रतिपादिका' 'अहेव सयसहस्सा' इति गाथात आरभ्य "सत्त यसया अणूणा तारागण कोडिकोडीणं' इति पर्यन्तमष्टौ गाथाः सन्ति, आसामर्थः,

Loading...

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743