Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 696
________________ चन्द्रप्रज्ञप्तिसूत्रे अथ 2 पुष्करवरस्य विभागद्वयं प्रदर्शयति 'ता पुक्खरवरस्स णं' इत्यादि । 'ता, तावत् ' पुक्खरवरस्स णं दीवस्स' पुष्करवरस्य पूर्वप्रदर्शितस्वरूपस्य खलु द्वीपस्य ' बहुमज्झदेसभाए' बहुमध्यदेशभागे वहुमध्यः अत्यन्त मध्यो यो देशः क्षेत्रं तस्य भागे तत्स्थाने 'माणुसोत्तरे णामं पव्चर' मानुपोत्तरो नाम पर्वतः, किं संस्थानकः ' इत्यत्राह - 'वलयागारसंठाण संठिए' वलयवदन्तः शुपिरो बहिर्गोलाकारः, एतादृशं संस्थानम् आकृतिर्यस्य स तादृशो वर्त्तते, ततः किम् ± ‘जे णं' इत्यादि यः खलु मानुपोत्तर पर्वतः 'पुक्खरवरं दीर्घ' पुष्करवरं द्वीपम् 'दुहा विभयमाणे २ चिट्ट' द्विधा विभजमानः विभजमान स्तिष्ठति स्थितोऽस्ति, 'तं जहा ' तद्यथा'अभितरपुक्खरद्धं च वाहिरपुक्खरद्धं च ' आभ्यन्तरपुष्करार्द्ध च बाह्यपुष्करा च मानुषोतरपर्वतमाश्रित्य पुष्करवरद्वीपस्य द्वौ विभागौ आभ्यन्तरबाह्यरूपौ जाती मानुपोत्तरपर्वता दर्वाक् यत् पुष्करार्द्ध तद् आभ्यन्तरपुष्करार्द्धम्, यन्मानुषोत्तर पर्वतात्परतस्तद् वाहा पुष्करार्द्धम्, इति भावः तत्र आभ्यन्तरपुष्करार्द्धस्य संस्थानादिविपये श्रीगोतम' पृच्छति - 'ता अभितरपुक्खरण' इत्यादि, हे भगवान् ? आभ्यन्तरपुष्करार्द्धद्वीपः किं समचक्रवालसंस्थानसंस्थितः विपमचक्रवालसंस्थानसंस्थितो वर्त्तते । श्रीभगवानाह - 'ता समचक्कवालसंठाणसंठिए' इत्यादि, तावत् म ममचक्रवालसस्थानसंस्थितोऽस्ति न तु विषमचक्रवालसंस्थानसंस्थितः । सम्प्रति विष्कम्भपरिधिविषये गौतमस्य प्रश्नः - 'ता अभितरपुक्खरद्धेणं' इत्यादि प्रश्नसूत्रं सुगमम् भगवानाह - ' ता अट्ठ जोयणसयसहस्साई ' इत्यादि, तावत् आभ्यन्तरपुष्करार्द्धमष्ट लक्ष योजनपारंमितं चक्रवालविष्कम्भेण तथा 'एगा जोयणकोडी' इत्यादि, एका योजनकोटी, द्वि चत्वारिंशच्च लक्षाणि, त्रिंशच्च सहस्राणि, एकोनपञ्चाशदधिके द्वे योजनशते (१४२,३०,२४०), एतावत्परिमितं परिक्षेपेण परिधिना वर्तते । अथ तद्गतचन्द्रादि विपये पृच्छा सुगमा । भगवानाह - 'ता वाचत्तरिं चंदा ' इत्यादि, आभ्यन्तरपुष्करार्द्धे द्वा सप्ततिश्चन्द्राः प्राभासयन् वा ३ द्वा सप्ततिरेव सूर्या अतापयन् वा ३, पोडशाधिकद्वि सहस्रसंख्यकानि (२०१६) नक्षत्राणि योगमयुञ्जन् वा ३, महाग्रहा पट् सहस्राणि पत्रिंशदधिकानि त्रीणि शतानि च (६३३६) चारमचरन् वा, तथा - ताराश्च कोटी कोटीनामष्ट चत्वारिंगल्लाणि, द्वाविंशतिः सहस्राणि, द्वे गते च (४८२२२००) एतावत्यः शोभामशोभन्त वा ३, अथ मनुष्यक्षेत्रस्य विष्कम्भादि विषये पृच्छति - 'ता मणुस्सखेत्तेणं' इत्यादि 'ता' तावत् मनुष्यक्षेत्रं खलु अस्य समयक्षेत्रमित्यपि नाम, अत्राहोरात्रादि समय सद्भावात्, 'केवई आयाम विक्खभेणं' कियत्परिमितमायामविष्कम्भेण अत्र जीवाभिगमस्यातिदेशमाह् - 'एच' इत्यादि एवं जीवाभिगमोक्त वदेवात्र - 'विक्खंभो परिरओ, जोइस ताराओ' विष्कम्भः विष्कम्भुपरिमाणं, परिस्यः परिधिपरिमाणं, ज्यौतिपं ज्यौतिश्चक्रं चन्द्रसूर्यनक्षत्रग्रहगण रूपं, ताराथेति सर्वमत्र पठनीयम्, कियत्पर्यन्तं तारापाठः ' इत्याह ," 2 ६६८

Loading...

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743