Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 689
________________ चन्द्रप्तिप्रकाशिका टोका प्रा.१९.सू.१ चन्द्रसूर्यग्रहगणनक्षत्र तारारूपाणां संख्यादिकम् ६६१ तानि ज्ञातव्यानि ॥३०॥ एवं जम्बूद्वोपे, द्विगुणा लवणे चतुर्गुणा भवन्ति । लवणाच्च त्रिगुणिताः शशि सूर्या धातकी पण्डे । ३१॥ द्वौ चन्द्रौ इह द्वीपे, चत्वारश्च सागरे लवणतोये । धातकीपण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥३२॥ धातकी पण्ड प्रभृतिपु, उद्दिष्टास्त्रि गुणिता भवन्ति चन्द्राः । आधचन्द्रसहिता. अनन्तरानन्तरे क्षेत्रे ॥३३॥ ऋक्ष्य ग्रहतारा, द्वीपसमुद्रे यदीच्छसि ज्ञातुम् । तन्छशिभिस्तद् गुणितं ऋश्नग्रहतारकाग्रे तु ॥३॥ पहिस्तु मानुपनगस्य चन्द्रसूर्याणामस्थिता ज्योत्स्ना । चन्द्रा अभिजिद् युक्ताः सूर्याः पुनर्भवन्ति पुण्यैः ॥३५॥ चन्द्रात् सूर्यस्य च सूर्यात् चन्द्रस्य अन्तरं भवति । पञ्चाशत्सहनाणि तु योजनानामन्यूनानि ॥३६॥ सूर्यस्य च सूर्यस्य च शशिनः शशिनश्च अन्तरं भवति । वहिस्तु मानुपनगस्य, योजनानां शतसहस्रम् ॥३७॥ सूर्यान्तरिताश्चन्द्राः, चन्द्रान्तरिताश्च दिनकरा दीप्ताः। चित्रान्तरलेश्याकाः, शुभलेश्या मन्दलेग्याश्च ॥३८|| अष्टाशीतिश्चग्रहा. अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एक शशि परिवारः इतस्ताराणां वक्ष्यामि ॥३९॥ षट्पष्टिः सहस्राणि, नव चैव शतानि पञ्च सप्ततानि एक शशि परिवारः, तारा गणकीटि कोटोनाम्॥४०॥सू० १॥ । व्याख्या--'ता कइ णं' इत्यादि । 'ता' तावत् 'कइणं' कति खल 'चंदिमसरिया" चन्द्रसूर्याः 'सबलोयं सर्वलोकम् 'ओभाति उज्जोति' तवेति पभासेंति' अव भासयन्ति, उद्योतयन्ति, तापयन्ति-प्रकाशयन्ति, प्रभासयन्ति, एतद्विषये भवता किम् 'आहियं' आख्यातम् ! कथितम् ति वएज्जा' इति वदेत् वदतु'कथयतु हे भगवन् । एवं गौतमेन पृष्टे भगवान् एतद्विषये या द्वादश प्रतिपत्तयः भवन्ति ताः प्रदर्शयति-तत्थ खल' इत्यादि, 'तत्थ' तत्र चन्द्र सूर्य संख्याविषये खलु 'इमाओ' इमाः वक्ष्यमाणस्वरूपाः 'वारस पडिवत्तीओ' द्वादश प्रतिपतयः परतीर्थिकमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः । ता एवाह-'तत्थेगे' इत्यादि, 'तत्थ तत्र द्वादश प्रतिपत्तिवादिनां मध्ये 'एगे' एके केचन परमतवादिनः 'एवं' एवम्-वक्ष्यमाणप्रकारेण 'आइंसु' आहु कथयन्ति, किमाहुरित्याह- 'ता एगे' इत्यादि, 'ता' तावत् ‘एगे चंदे एगे सुरे सबलोयं' एकश्चन्द्रः एकः सूर्यः सर्वलोकम् 'ओभासेई' इत्यादि, अवभासयति, उद्योतयति तापयति प्रभासयति, उपसहारमाह-एगे' एके प्रथमप्रतिपत्तिवादिनः 'एवं' एवम्-पूर्वोक्त प्रकारेण 'आइंसु आहुः कथयन्ति ।१। द्वितीयप्रत्तिमाह-'एगे पुण' एके द्वितीयाः पुनः 'एवमाहसु' एवमाहुः 'ता' तावत् 'तिणि चंदा तिष्णि मुरा सव्वलोयं ओभासंति ३ त्रयश्चन्द्राः त्रयः सूर्याः सर्वलोकम् अवभासयन्ति उदद्योतयन्ति तापयन्ति प्रभासयन्ति 'एगे' एवमाहंसु एके एवमाहुः ॥२। तृतीयां प्रतिपत्तिमाह- 'एगे पुण एमाहंसु' एके तृतीया एवमाहुः-'ता' तावत् 'आउटिं चंदा आउहि सूरा' अर्द्ध चतुर्थाःसास्त्रियश्चन्द्राः अर्द्ध चतुर्था सार्द्धात्रयः' सूर्याः 'बोभासंति ४' अवभासयन्ति ४, ‘एंगे एवमाहंसु' एके एवमाहुः ।३। अथाग्रेऽतिदेशमाह

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743