________________
चन्द्रप्तिप्रकाशिका टोका प्रा.१९.सू.१ चन्द्रसूर्यग्रहगणनक्षत्र तारारूपाणां संख्यादिकम् ६६१ तानि ज्ञातव्यानि ॥३०॥ एवं जम्बूद्वोपे, द्विगुणा लवणे चतुर्गुणा भवन्ति । लवणाच्च त्रिगुणिताः शशि सूर्या धातकी पण्डे । ३१॥ द्वौ चन्द्रौ इह द्वीपे, चत्वारश्च सागरे लवणतोये । धातकीपण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥३२॥ धातकी पण्ड प्रभृतिपु, उद्दिष्टास्त्रि गुणिता भवन्ति चन्द्राः । आधचन्द्रसहिता. अनन्तरानन्तरे क्षेत्रे ॥३३॥ ऋक्ष्य ग्रहतारा, द्वीपसमुद्रे यदीच्छसि ज्ञातुम् । तन्छशिभिस्तद् गुणितं ऋश्नग्रहतारकाग्रे तु ॥३॥ पहिस्तु मानुपनगस्य चन्द्रसूर्याणामस्थिता ज्योत्स्ना । चन्द्रा अभिजिद् युक्ताः सूर्याः पुनर्भवन्ति पुण्यैः ॥३५॥ चन्द्रात् सूर्यस्य च सूर्यात् चन्द्रस्य अन्तरं भवति । पञ्चाशत्सहनाणि तु योजनानामन्यूनानि ॥३६॥
सूर्यस्य च सूर्यस्य च शशिनः शशिनश्च अन्तरं भवति । वहिस्तु मानुपनगस्य, योजनानां शतसहस्रम् ॥३७॥ सूर्यान्तरिताश्चन्द्राः, चन्द्रान्तरिताश्च दिनकरा दीप्ताः। चित्रान्तरलेश्याकाः, शुभलेश्या मन्दलेग्याश्च ॥३८|| अष्टाशीतिश्चग्रहा. अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एक शशि परिवारः इतस्ताराणां वक्ष्यामि ॥३९॥ षट्पष्टिः सहस्राणि, नव चैव शतानि पञ्च सप्ततानि एक शशि परिवारः, तारा गणकीटि कोटोनाम्॥४०॥सू० १॥ । व्याख्या--'ता कइ णं' इत्यादि । 'ता' तावत् 'कइणं' कति खल 'चंदिमसरिया" चन्द्रसूर्याः 'सबलोयं सर्वलोकम् 'ओभाति उज्जोति' तवेति पभासेंति' अव भासयन्ति, उद्योतयन्ति, तापयन्ति-प्रकाशयन्ति, प्रभासयन्ति, एतद्विषये भवता किम् 'आहियं' आख्यातम् ! कथितम् ति वएज्जा' इति वदेत् वदतु'कथयतु हे भगवन् । एवं गौतमेन पृष्टे भगवान् एतद्विषये या द्वादश प्रतिपत्तयः भवन्ति ताः प्रदर्शयति-तत्थ खल' इत्यादि, 'तत्थ' तत्र चन्द्र सूर्य संख्याविषये खलु 'इमाओ' इमाः वक्ष्यमाणस्वरूपाः 'वारस पडिवत्तीओ' द्वादश प्रतिपतयः परतीर्थिकमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः । ता एवाह-'तत्थेगे' इत्यादि, 'तत्थ तत्र द्वादश प्रतिपत्तिवादिनां मध्ये 'एगे' एके केचन परमतवादिनः 'एवं' एवम्-वक्ष्यमाणप्रकारेण 'आइंसु' आहु कथयन्ति, किमाहुरित्याह- 'ता एगे' इत्यादि, 'ता' तावत् ‘एगे चंदे एगे सुरे सबलोयं' एकश्चन्द्रः एकः सूर्यः सर्वलोकम् 'ओभासेई' इत्यादि, अवभासयति, उद्योतयति तापयति प्रभासयति, उपसहारमाह-एगे' एके प्रथमप्रतिपत्तिवादिनः 'एवं' एवम्-पूर्वोक्त प्रकारेण 'आइंसु आहुः कथयन्ति ।१। द्वितीयप्रत्तिमाह-'एगे पुण' एके द्वितीयाः पुनः 'एवमाहसु' एवमाहुः 'ता' तावत् 'तिणि चंदा तिष्णि मुरा सव्वलोयं ओभासंति ३ त्रयश्चन्द्राः त्रयः सूर्याः सर्वलोकम् अवभासयन्ति उदद्योतयन्ति तापयन्ति प्रभासयन्ति 'एगे' एवमाहंसु एके एवमाहुः ॥२। तृतीयां प्रतिपत्तिमाह- 'एगे पुण एमाहंसु' एके तृतीया एवमाहुः-'ता' तावत् 'आउटिं चंदा आउहि सूरा' अर्द्ध चतुर्थाःसास्त्रियश्चन्द्राः अर्द्ध चतुर्था सार्द्धात्रयः' सूर्याः 'बोभासंति ४' अवभासयन्ति ४, ‘एंगे एवमाहंसु' एके एवमाहुः ।३। अथाग्रेऽतिदेशमाह