Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५०
चन्द्रप्राप्तिसूत्रे घर्पसहस्ररभ्यधिकम् । तावत् सूर्यविमाने खलु भदन्त ! देवानां कियत्कं कालं स्थितिः प्रनता ? जघन्येन चतुर्भागपल्योपमम्, उत्कर्षेण पल्योपम वर्पसहस्राभ्यधिकम् तावत् सूर्यविमाने खलु भदन्त ! देवोनां कियत्कं काल स्थितिः प्रश्नप्ता जघन्येन चतुर्भाग पल्योपमम्, उत्कर्पण अर्द्धपल्योपमं पञ्चभिर्वशतैरभ्यधिकम् तावत् गृहविमाने खलु भदन्त ! देवानां कियत्कं कालं स्थितिः प्रशता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्पण पल्योपमम् तावत् गृहविमाने खलु भदन्त ! देवीनां कियत्कं कालं स्थितिः प्रज्ञता ? जघन्येन चतुर्भागपल्योपमम्, उत्कर्षेण अर्द्धपल्योपमम् । तावत् नक्षत्र विमाने खलु भदन्त । देवानां किय कं कालं स्थितिः प्रशता ? जघन्येन चतुर्भागपल्योपमम्. उत्कर्षेण पल्योपमम् तावत् नक्षत्रविमाने खलु भदन्त ! देवीनां कियत्कं कालं स्थितिः प्रनप्ता ? जघन्येन अष्ट भागपल्योपमम् उत्कर्षेण चतुर्भागपल्योपमम् तावत् ताराविमाने खलु भदन्त ! देवानां पृच्छा जघन्येन अष्ट भागपल्योपमम् उत्कषण चतुर्भागपल्योपमम् । तावत् तारा विमाने खलु भदन्त । देवीनां कियत्कं कालं स्थितिः प्रज्ञप्ता तावत् जघन्येन अष्ट भागपल्योपमम्, उत्कर्पण सातिरेकाष्टभागपल्योपमम् ॥४॥
व्याख्या-अत्र ज्यौतिष्फदेवदेवीनां स्थितिकथनं वर्त्तते, तद्विषयकोऽत्र प्रश्नः-'ता जोइसियाणं' इत्यादि, सामान्य ज्योतिष्कविषये पृच्छति भगवानाह-'जहण्णेणं, इत्यादि, ज्यौतिष्काणां स्थितिः जघन्येन अष्टभागपल्योपमा, पल्योपमस्याष्टमभागपरिमिता उत्कर्षेण शतसहस्रवाधिकपल्योपमप्रमाणा लक्ष वर्षाधिकमेकं पल्योपमं स्थितिः । ज्यौतिष्कदेवीनां स्थितिः जधन्येन पूर्वोक्तंव अष्टभागपल्योपमा पल्योपमस्याष्टमभागपरिमिता, उत्कर्षेण पञ्चाशद्वर्षसहरधिकाऽर्द्धपल्योपमा। चन्द्रविमानस्थितदेवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा पल्योपमस्य चतुर्थभागपरिमिता, उत्कर्पण शतसहस्रवरधिका पल्योपमप्रमाणा लक्षवर्षाधिक पल्योपमं स्थितिः । चन्द्र विमानगतदेवीनां च स्थिति जघन्येन चतुर्भागपल्योपमा, ऊत्कर्षण पञ्चाशदर्पसहरधिकाऽपल्योपमा । 'ता सूरविमाणेणं' इत्यादि, सूर्यविमानगत देवानां स्थिति धन्येन चतुर्भागपल्योपमा, उत्कर्षेण सहस्रवर्षाधिक पल्योपमप्रमाणा । तद्गत देवीनां स्थिति धन्येन चतुर्भागपल्योपमा, उत्कर्षेण पञ्चशत वर्षैरधिकाऽपल्योपमप्रमाणा । 'ता गहविमाणेण' इत्यादि, ग्रहविमानगतदेवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा, उत्कर्षण 'पल्योपमपरिमिता । ग्रहविमानगतदेवानां स्थितिर्जघन्येन चतुर्माग पल्योपमा, उत्कर्षेणार्द्ध पल्योपमप्रमाणा। 'ता णक्खनविमाणेणं' इत्यादि, नक्षत्रविमानगतदेवानां स्थितिर्जघन्येन चर्तुभागपल्योपमा उत्कर्षेण अर्द्ध पल्योपमप्रमाणा, देवीनां अष्टभागपत्र्योपमा, पल्योपमस्याष्टमो भागः, उत्कर्येण चतुर्भागपल्योपमप्रमाणा पल्योपमस्य चतुर्थभागः । 'ता तारा विमाणेणं' इत्यादि, तारा विमानगतदेवानां स्थिति धन्येन अष्टभागपल्योपमा, उत्कर्पण चतुर्भागपल्योपमप्रमाणा । तद्गतदेवीनां स्थिनिर्जघन्येन अष्टभागपल्योपमा, उत्कर्षेण सातिरेकेति किञ्चिदधिकाष्टभागपन्योपमग्रमाणेति ।मूत्र १४ ॥

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743