Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 474
________________ १८४ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः । ___तत्र ( १ ) "स्वामिन फलश्रुतेरित्यारेय." ३।४।४४ (४६९) इत्यत्र “आत्रेयः" इति प्रथमान्तपदात् अधिकरणामः संगतः, चतुर्थसमान्यनियमात् । नाना स्वमतप्रतिकूलपरमतनिर्देशेन विषयान्तरज्ञापनेन च स च युक्तः एव, विंशविशेषनियमात् । समप्रसूत्रस्य पूर्वपक्ष०५त्वात् । अतेऽयम् अत्र एका नियमः सङ्कलनीय. ___"पूर्वपक्षसूत्रीय-प्रथमा-तनामपदेन परमतनिर्देशे कृते तथा विषयान्तरे सूचिते पृथग् अधिकरणारम्भः करणीय" इति । ____ अत्र “आत्रेय" इति पदेन विषयान्तरसूचितपूर्वपक्षसूत्ररचनाया अधिकरणारभः संगच्छते । तेन बल्लभ-भाष्ये अधिकरणस्य अरचनाया दोषः । (२) "आविज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते” ३।४।४५ (४७०) इत्यत्र “आविज्यम्" तथा "औडलोमि" इति प्रथमान्तपदद्वयात् अत्र अधिकरणारम्भः युज्यते एव, चतुर्थसामान्यनियमात् स्वमतानुकूलपरमतेन विषयान्तरस्य अज्ञापनात् च, दशमविशेषनियमात् । (३) "श्रुतेश्च" ३।४।४६ (४७२) इत्यत्र प्रथमान्तपदामावात नास्य अधिकरणारभकत्वम् चतुर्थसामान्यनिययात् । चकारस्य हेतुसमुच्चायकार्थत्वात्, पठविशेषनियमात् । भा-रा-श्रीनि-भाष्येषु अस्य अग्रहण दृश्यते । तेन भा-रा-नि-म-श्री-मतेषु सूत्रद्वयन एतदधिकरण, माध्वमते तु एतस्यापि परवर्तिसूत्रे अधिकरणकरणात् तन्मते सूत्रत्रयात्मकम् एतदधिकरणम् । परसूत्रे सप्ताना सम्मत्या अधिकरणाम्भात् अत्रैव अधिकरणसमाप्तिः। चतुर्दशं सहकार्यन्तरविध्यधिकरणम् अत्र “सहकार्यन्तरविधि पक्षण तृतीय तद्वतो विध्यादिवत् ३।४।४७ (४७२) इति सूत्रत्य "राहकार्य-तर-पवात् अस्य “सहकार्य-तरविध्यधिकरण” नाम । तत्र मध्यभाग्यभिन्नेषु सर्वेषु भाप्ये अत्र अधिकरणम् आरब्धम् । माध्वमते एतत् सूत्र सूत्रत्रयात्मक-सप्तमाधिकरणस्य तृतीय सूत्रम् । ततश्च कर-मास्कर-भाष्ययोः सूत्रत्रयात्मक-चतुर्दशाधिकरणग्य, रामानुजाये सूत्र/यात्मक-द्वादशाधिरकणस्य, निम्बार्कभाष्ये संत्रत्रयात्मक-दशमाधिकरणस्य, श्रीकण्ठभाप्ये सूत्रैकात्मक त्रयोदशाधिकरणस्य, श्रीपतिभाष्ये सूत्रद्वयात्मक-त्रयोदशाधिकरणस्य, वल्लभभाष्ये च सूत्रकात्मक-सप्तमाधिकरणस्य प्रथमं सूत्रम् । तच्च सूत्रत्रयम् १। “सहकार्यन्तरविधि. पक्षण तृतीया तद्वतो विध्यादिधत्" ३१४।४७ ( ४७२ ) २। “कृत्स्नभावात् तु गृहिणेपिसहार" ३।४।४८ (४७३ ) ३। “मौनवदितरेपामप्युपदेशात्" ३।४|४९ ( ४७४) अत्र ( १ ) “सहकार्यन्तरविधि. पक्षेण तृतीया तद्वतो विध्यादिवत्" ३।४।४७ (४७२) इत्यमा “सहकार्यन्तरविधि" इति प्रथमान्तपदात् अस्य अधिकरणारम्भः सगतः एव । चतुर्थसामान्यनियमात् । माध्वभाप्ये अधिकरणस्य अनारमात् दोप. ।

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555